________________
क्ष्माधरश्च वारुणबीजञ्च गौश्च माधरवारुणबीजगाव: इत्याख्यन्। 'इति' अनुक्तोऽपि गम्यतेऽर्थवशात् । इति किम्? विक्रमस्यनृपविशेषस्य असिः-खड्ग, स एव काल:-यमः विक्रमासिकाल: कं किमकृत्? अत्रोत्तरम्- आद शकं धरवधेनवः! धरः-पर्वतः, व इति वारुणं बीजं मान्त्रिकप्रसिद्धम्, धेनुः-गौः, ततो द्वन्द्वे सम्बोधने च हे धरवधेनवः! आद-भक्षितवान् शकं राजानम्॥ अत्र वृत्तद्वयेन सम्बन्धः। प्रथमेन मञ्जरी, द्वितीयेन द्विर्गतजातिः॥ १२८॥
प्राह रविर्मद्विरहे कैस्तेजःश्रीः क्रमेण किं चक्रे ?। कीदृशि च नदीतीर्थे नाऽवतितीर्षन्ति हितकामा:?॥१२९॥
॥अहिमकरभैरवापे॥ द्विगर्तजातिः॥ व्याख्या:- प्राह रविः- मद्विरहे ममाऽभावे कैः तेजःश्री: किं चक्रे? उत्तरम्- हे अहिमकर! आदित्य! भैः नक्षत्रैः अवापे लब्धा।
'च: पक्षान्तरे, कीदृशि नदीतीर्थे हिमकामा जना नावतितीर्षन्ति अवतरीतुं नेच्छन्ति? अथवा कीदृशे नदीतीर्थे नावि बेडायां तितीर्षन्ति तरीतुमिच्छन्ति? उत्तरम्- अहयः-जलसर्पाः, मकरा:-मत्स्यविशेषाः, अहयश्च मकराश्च ते तथा, तैः भैरवा:-भयङ्करा आप:-जलानि यत्र तीर्थे तत्तथा, तस्मिन् अहिमकरभैरवापे॥ द्विर्गतजाति: ॥ ॥ १२९ ॥ स्थिरसुरभितया ग्रीष्मे ये रागीष्टा विचिन्त्य तान्प्रश्रम्। यं चक्रे करिपुरुष-स्तदुत्तरं प्राप तत्रैव॥ १३०॥
॥ केसरागजनरुचिताः॥ समवर्णप्रश्रजातिः॥ 'तेजसः श्रीः' इति । 'च' इति ३। 'द्विर्गतजाति' इति न ३। 'रागिष्ठा' इति मु. प्रतौ।
कल्पलतिकाटीकया विभूषितम्