________________
व्याख्याः- कश्चित् करिपुरुषः इभपालो ग्रीष्मे स्थिरसुरभितया स्थिरसुगन्धितया ये रागीष्टाः रागवल्लभाः, तान् विचिन्त्य यं प्रश्नं चक्रे तत्रैव प्रश्ने तदुत्तर प्राप।
तथाहि- ‘सह रागेण वर्तन्ते सरागाः, ते च ते जनाश्च, तेषां रुचिताः सरागजनरुचिता: के?' इति प्रश्ने एतदेवोत्तरम्- केसराः बकुलाः, गजस्य ना-पुरुषः गजना, तस्य सम्बोधनम्- हे गजनः ! हस्तिपक! उचिताः प्रशस्याः॥ समवर्णप्रश्रजाति: ॥ १३०॥
प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्री: कीदृशं कामिवृन्दम् ?। प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या कृतिभिरभिनियुक्तं किं किलाहं करोमि?॥ १३१॥
नत्वमसि॥ ओजस्विजाति:२॥ व्याख्याः - प्रणतानां जनिता रक्षा येन तत् प्रणतजनितरक्षम्, एवंविधं अर्हत्पदाब्जं कीदृग् भवति? उत्तरम्- नतु। नमतीति नत्, क्विप् तुगागमे मलोपे च नत्, ततो नतं-प्रणतमवतीति नतूः, नपुंसकत्वाद् ह्रस्वत्वे नतु-प्रणतरक्षकमित्यर्थः। .. विगलितश्री: निःश्वो वदति- कामिवृन्दं कीदृशं स्यात्? न विद्यते मा-लक्ष्मीर्यस्याऽसौ अमः, तत्सम्बोधनम्- हे अम! गतलक्ष्मीक! सि सह इना-कामेन वर्तते इति। 'सहादेः सादिः' [सा.सू.५०६] अनेन सह शब्दस्य सभावे 'से' इति, ततो नपुंसकत्वाद् ह्रस्वत्वे एकारस्य इकारे 'सि' इति भवति।
निषेधार्थं पदं प्रणिगदति ब्रूते- तन्त्रयुक्त्या शास्त्रोक्तयुक्त्या कृतिभिः कविभिः अभिनियुक्तं प्रयुक्तं सन्नहं किं करोमि? हे न! नकार ! त्वमसि निषेधार्थं वर्त्तसे इति ॥ ओजस्विजाति: ॥ १३१॥
'समवर्णप्रश्नजाति: ' इति न ३। २. 'द्विःसमस्तजातिः' इति मु. प्रतौ। ३. 'ओजस्विजातिः' इति न ३।।
प्रश्नोत्तरैकषष्टिशतकाव्यम्