________________
दम्पत्योः का कीदृक् ? के कं भेजुरिति सुनृपते ! ब्रूहि । मुक्ताः कयाऽऽद्रियन्ते ? वदत्यपाच्यश्च मदनध्रुक् कीदृक् ? ॥ १३२ ॥ ॥ माया न मदनदा, दानदमनया मा, हारदामकाम्यया, याम्य! कामदारहा ॥ मन्थानजातिः ॥ व्याख्या:- दम्पत्योः भर्तुभार्ययोः का कीदृक् ? माया निकृति: न मदनदा न कामदा ।
'हे सुनृपते ! के कं भेजुः ?' इति त्वं ब्रूहि । ततो नृपः प्राहः - दानदमनया मा । दानञ्च दमश्च नयश्च दानदमनयाः कर्त्तारो मा-मां कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः ।
मुक्ताः मौक्तिकानि कयाऽऽद्रियन्ते ? उत्तरम् - हारदामकाम्यया हारयष्टिवाञ्छया, मौक्तिकहाराभिलाषेण मुक्ताफलान्याद्रियन्त इत्यर्थः । अपाच्यः दाक्षिणात्यो वदति - मदनधुक् कामरिपुः कीदृक् ? उत्तरम् — यमस्येयं यामी, तस्यां भवः, तत आगतः वा याम्यः, तत्सम्बोधनम्- हे याम्य! दाक्षिणात्य ! कामस्य दारां- मन्मथभार्यां हन्तीति कामदारहा । अत्र गीतिच्छन्दः ॥ मन्थानजातिः १ ॥ १३२ ॥
मा या न
१.
९६
हा
र
दा
'मन्थानजाति:' इति न ३ ।
म
का
म्य
या
ते कीदृशाः क्व कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? । कां पातीन्द्रः ? पट्टो ब्रवीति कीदृक् क्व भूः प्रायः ? ॥ १३३ ॥
॥ ये रता जिनमते ॥ तेमन ! जितारये ॥ लेखराजिमासन ॥ नसमाजिराखले ॥
मन्थानजातिः ॥
दन दा
कल्पलतिकाटीकया विभूषितम्