Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 148
________________ व्याख्याः- कश्चित् करिपुरुषः इभपालो ग्रीष्मे स्थिरसुरभितया स्थिरसुगन्धितया ये रागीष्टाः रागवल्लभाः, तान् विचिन्त्य यं प्रश्नं चक्रे तत्रैव प्रश्ने तदुत्तर प्राप। तथाहि- ‘सह रागेण वर्तन्ते सरागाः, ते च ते जनाश्च, तेषां रुचिताः सरागजनरुचिता: के?' इति प्रश्ने एतदेवोत्तरम्- केसराः बकुलाः, गजस्य ना-पुरुषः गजना, तस्य सम्बोधनम्- हे गजनः ! हस्तिपक! उचिताः प्रशस्याः॥ समवर्णप्रश्रजाति: ॥ १३०॥ प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्री: कीदृशं कामिवृन्दम् ?। प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या कृतिभिरभिनियुक्तं किं किलाहं करोमि?॥ १३१॥ नत्वमसि॥ ओजस्विजाति:२॥ व्याख्याः - प्रणतानां जनिता रक्षा येन तत् प्रणतजनितरक्षम्, एवंविधं अर्हत्पदाब्जं कीदृग् भवति? उत्तरम्- नतु। नमतीति नत्, क्विप् तुगागमे मलोपे च नत्, ततो नतं-प्रणतमवतीति नतूः, नपुंसकत्वाद् ह्रस्वत्वे नतु-प्रणतरक्षकमित्यर्थः। .. विगलितश्री: निःश्वो वदति- कामिवृन्दं कीदृशं स्यात्? न विद्यते मा-लक्ष्मीर्यस्याऽसौ अमः, तत्सम्बोधनम्- हे अम! गतलक्ष्मीक! सि सह इना-कामेन वर्तते इति। 'सहादेः सादिः' [सा.सू.५०६] अनेन सह शब्दस्य सभावे 'से' इति, ततो नपुंसकत्वाद् ह्रस्वत्वे एकारस्य इकारे 'सि' इति भवति। निषेधार्थं पदं प्रणिगदति ब्रूते- तन्त्रयुक्त्या शास्त्रोक्तयुक्त्या कृतिभिः कविभिः अभिनियुक्तं प्रयुक्तं सन्नहं किं करोमि? हे न! नकार ! त्वमसि निषेधार्थं वर्त्तसे इति ॥ ओजस्विजाति: ॥ १३१॥ 'समवर्णप्रश्नजाति: ' इति न ३। २. 'द्विःसमस्तजातिः' इति मु. प्रतौ। ३. 'ओजस्विजातिः' इति न ३।। प्रश्नोत्तरैकषष्टिशतकाव्यम्

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186