________________
व्या
उदधिजाकान्तः-हरिः, विवस्वतः-सूर्यस्याऽपत्यं वैवस्वतो यमः, अन्तः-प्रान्तः, ततो द्वन्द्वे उदधिजाकान्तवैवस्वतान्ताः पृथग् आहुः इति वदन्ति- 'कश्चित् कामी ललनया स्त्रिया क्षिप्तो मन्मथोन्माथेनकामव्यथया दुःस्थ:-पीडितो मन्मथोन्माथदुःस्थ: सन् अथ सख्या मित्रेण चित्तखेदापनोदाय स कथम् आचख्ये बभाषे? अत्रोत्तरम्हे अ! विष्णो ! हे काल! हे यम! हे अवसान ! प्रान्त ! साऽबला स्त्री कामयमानम् अभिलषन्तं कं नरं न आस चिक्षेप, अपि तु सर्वमपि क्षिप्तवती॥ गतप्रत्यागतजातिः ॥ १०३ ।।
जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः। सध्रीची यदपृच्छ-त्तदुत्तरं प्राप तत एव॥ १०४॥
॥ प्रसूनपुञ्जेनवमालिका॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्या:- जननीरहितनरोद्भवा या लक्ष्मीः सा जननीरहितनरोद्भवलक्ष्मीः, किम्भूता ? सिते-धवले कुसुमभेदे गता बुद्धिर्यस्याः सा सितकुसुमभेदगतबुद्धिः सती सध्रीची सखीं प्रति यदपृच्छत्, तत एव तदुत्तरं प्राप। . तथाहि- प्रसूनपुञ्जे कुसुमनिकरे अनवमा प्रधाना हे आलि! सखि! का? इति प्रश्ने उत्तरम्- प्रसूः-माता, तया ऊनः प्रसूनः, जननीरहित इत्यर्थः । स चाऽसौ पुमांश्च प्रसूनपुमान्, तस्माज्जाता प्रसूनपुञ्जा । सा चाऽसौ ईश्च लक्ष्मीः, तस्याः सम्बोधनम्- हे प्रसूनपुञ्जे! नवमालिका पुष्पजातिविशेषः॥ समवर्णप्रश्रजातिः ॥ १०४॥
'गतप्रत्यागतजातिः' इति न ३। 'उत्तरं' इति ३। 'तज्जाता' इति । 'समवर्णप्रश्रजातिः' इति न ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
s
n
x
७७