SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र ॥ १०५॥ ॥[श्लोकमध्यस्थितसमवर्णप्रश्नजातिः ॥ व्याख्याः - अन्तकस्य-यमस्य चिरनगरं-पुराणपुरम्, तस्य रक्षकःअन्तकचिरनगररक्षकः कर्ता कमलासीनां देवीं मनसि स्मृत्वा यदपृच्छत्, तत्रैव प्रश्ने उत्तरमवाप। तथाहि- का आलीयमानवपुः श्रीयमाणशरीरा अत्र जगति? इह प्रश्ने उत्तरम्- काली देवता, यमस्य अनवं-पुरातनं यत्पुरम्, तद् त्रायतेरक्षति यः स तथा, तत्सम्बोधनम्- हे यमानवपुरत्र! इयं गीतिः॥ [ श्लोकमध्यस्थितसमवर्णप्रश्नजातिः ॥ १०५॥ सैन्याधिभूरभिषिषणयिषुस्त्वदीयः, कं किं करोति विजयी नृपते! हठेन ?। कीदृक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः?॥ १०६॥ . ॥मदनमञ्जरीगृह्यते॥ द्विर्गतः॥ व्याख्याः- हे नृपते! चक्रवर्तिन् ! विजयी जयनशीलः त्वदीयः सैन्याधिभूः सेनानी: अभिषेणयितुमिच्छु:-अभिषिषेणयिषुः रिपून् प्रति सेनयाऽभिगच्छन् कं किं करोति? उत्तरं नृपो दत्ते- मां न नमतीति मदनमः, यो मम प्रणामं न करोति तं जरीगृह्यते अतिशयेन गृह्णाति । 'ग्रह उपादाने' [सार.क्रया.उ.पृ.३३८]; [पाणि. धातु. १६३६] धातोरतिशये यङि 'जरीगृह्यते' इति रूपम्। १. २. 'श्लोकमध्यस्थितसमवर्णप्रश्रजातिः' इति न ३। 'कं किं करोति' इति न २। 'अतिशयेन गृह्णाति' इत्यस्य स्थाने 'अतिगृह्णाति' इति २ । कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy