________________
पत्नीहितो वदति- कस्य मन्मथवतः पुरुषस्य चेतसि कीदृशी कान्ता प्रतिभाति? 'गृहा दारेषु सद्मनि' [अनेकार्थसंग्रह २/६१२] इत्युक्तेहा:-कलत्राणि, तेभ्यो हितः गृह्यः, तत्सम्बोधनम्- हे गृह्य ! पत्नीहित! ते तव मदनस्य-मन्मथस्य मञ्जरी मदनमञ्जरी, तद् वद् आभासते इत्यर्थः॥ द्विर्गतजातिः ॥ १०६॥
कीदृक्षा किं कुरुते रतिसमये कुत्र गोत्रभिदि भामा?। कस्मै च न रोचन्ते रामा यौवनमदोद्दामा:?॥ १०७॥
॥ भवदरतीरमतये॥ [व्यस्तसमस्तजातिः ] व्याख्याः- कीदृक्षा भामा रतिसमये सुरतकाले कुत्र किं कुरुते? किम्भूते कुत्र? गोत्रभिदि, यत उक्तं माघे नवमसर्गे
तदयुक्तमङ्ग! तव विश्वसृजा, न कृतं यदीक्षणसहस्रतयम्। प्रकटीकृता जगति येन खलु, [स्फुटमिन्द्रताद्य मयि गोत्रभिदा।।]
(९/८०) सपत्नीनामाह्वयके। अत्रोतरम्-भवन्ती-उत्पद्यमाना अरतिर्यस्याः सा भवदरतिः रमते ए विष्णौ।
पक्षे, यौवनमदोद्दामा रामा:-स्त्रियः कस्मै न रोचन्ते? भवाद्दरो भवदरः, तस्य तीरं-मोक्षः, तत्र मतिर्यस्य सः, तस्मै भवदरतीरमतये॥ व्यस्तसमस्तजातिः॥ १०७॥ सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो!, यज्वा कस्मिन्सजति ? हरिणा: क्वोल्लसन्त्युद्विजन्ते ?। ब्रूते वज्रः पदमुपमितौ किं ? रविः पृच्छतीदं, देहिन्! बाधाभरविधुरितः कुत्र किं त्वं करोषि ?॥ १०८॥
॥ रेमेसदपवाभदेवे॥ मञ्जरीसनाथजातिः॥ १. 'द्विर्गतजाति: ' इति न ३।
प्रश्रोत्तरैकषष्टिशतकाव्यम्
७९