________________
संतो कम्मि परम्मुहा? घरमुहे सोहा कहिं कीरए ?, रूढे कम्मि रसंति दुट्ठकरहा? कम्मि बहुत्तं ठियं ?। दिढे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुयं', के मुंचंति धणुद्धरत्ति ? भणिरं मज्जायमामंतसु॥ १०९॥
॥ रेमेसदपवाभदेवे॥ विपरीतमञ्जरीसनाथजातिः॥ मिथ्याज्ञानग्रहग्रस्तैः किं चक्रे क किलाङ्गिभिः?। . क्वाऽभीष्टे का भवेत् कीदृ-गिति जैन! वद क्षीतेः॥११०॥
॥ रेमेसदपवाभदेवे॥ गतागत ( जाति:) ॥ त्रिभिः कुलकम्॥
व्याख्या:- क्रमेण पद्यत्रयं व्याख्यायते। काचित् सिन्धुः नदी वदति- हे जन्तो! त्वया कर्म किं विदधे?- हे रेवे! नर्मदे! मेवे मया कर्म बद्धम्। 'मव बन्धने' [पाणि. धातु. ६३९] इत्यस्य परोक्षे एपरे 'मेवे' इति रूपम्।
यज्वा यागकर्ता व सजति? सवे यज्ञे। मृगाः व कस्मिन् उल्लसन्ति सति उद्विजन्ते? दवे दावानले।
वज्रो वक्ति- उपमितौ उपमार्थे किं पदम्? हे पवे! वज्र! वा, 'वाशब्दो विकल्पोपमयोः' [ ] इति वचनात् ।
रविरिदं पृच्छति- 'हे देहिन्! त्वं बाधाभरेण विधुरित:पीडितो बाधाभरविधुरितः सन् कुत्र किं करोषि?'-हे अवे! सूर्य!, 'अवयः शैले मेघार्के' [ ] इति वचनात्, भवे संसारेऽहं देवे शुचं करोमि, 'तेवृ देव-देवने' [पाणि. धातु. ५३२-५३३] इति वचनात् ॥ इयं संस्कृत भाषयाऽनुलोममञ्जरी ॥.१०८॥
सन्तः साधवः क्व पराङ्मुखाः? वेरे वैरे। 'दुअं' इति मु. प्रतौ।
I ai
कल्पलतिकाटीकया विभूषितम्
i