________________
गृहमुखे कुत्र शोभा क्रियते? देरे द्वारे। प्राकृते द्वारशब्दस्य 'देर-दारं-वारं-दुवारं' इति रूपचतुष्टयं भवति।
दुष्टकरभाः कस्मिन् रूढे आरोपिते सति रसन्ति शब्दायन्ते? भरे भारे।
बहुत्वं कस्मिन् स्थितम्? वारे सङ्घाते।
'कुत्र दूरतो दृष्टे सति निजमनसि कस्मिन्नुल्लसति सति द्रुतं धनुर्धराः कान् मुञ्चन्ति?' इति भणन्ती मर्यादामामन्त्रय। परे वैरिणि दृष्टे सति' दरे भये उल्लसति सति सरे शरान् धनुर्धरा मुञ्चन्ति हे मेरे! मर्यादे! ॥ इयं प्राकृतभाषया विपरीतमञ्जरी ॥ १०९॥
अथ गतागतं दर्शयन्ति- मिथ्याज्ञानग्रहग्रस्तैरङ्गिभिः क्व किं चक्रे? उत्तरम्- रेमे रमितम्, पुनातीति पवा, न पवा अपवा- अपवित्रा, सा चाऽसावाभा च अपवाभा, सती-विद्यमाना अपवाभा यस्य, स चाऽसौ देवश्च, स तथा, तस्मिन् सदपवाभदेवे। 'मिथ्याज्ञानग्रहग्रस्तैः प्राणिभिः कुदेवेषु रतिश्चक्रे' इति भावः।
हे जिन [ जैन]! त्वं इति क्षितेः पृथिव्या वद। इति किम्? क्व अभीष्टे वल्लभे का कीदृग् भवेत् ? अत्रोत्तरं प्रत्यागतेन- वेदे भवापदासमा इरे! हे इरे!- भूमि! 'इराऽम्भोवाक्सुराभूमिषु' [अनेकार्थसंग्रह २/४०] . इति वचनात्, वेदेऽभीष्टे सति भवापत्- संसारापद् असमा-अनन्यतुल्या भवतीत्यर्थः। अत्र ‘रेमेसदपवाभदेवे' इत्युत्तर-पदेऽनुलोमप्रतिलोममञ्जरी द्वयं, गतप्रत्यागतं च दर्शितमिति त्रिभिरेकमेवोत्तरम् ॥ ११० ॥
भाद्रपदवारिबद्धः सितशकुनिविराजितं वियद्वीक्ष्य। कं प्रभू सदृशोत्तर-मकष्टमाचष्ट विस्पष्टम् ?॥ १११॥
॥ नभस्यकनद्धव( ब )लाका॥ समवर्णप्रश्नजातिः॥ व्याख्याः- भाद्रपदवारिबद्धः कश्चित् सितशकुनिविराजितं १. 'सति' इति न १।
प्रश्नोत्तरैकषष्टिशतकाव्यम्