________________
२/ ३८०] इति वचनात् । कचित्तु 'ययुता घोटिकासमूहः' इत्यपि दृश्यते ॥ समवर्णप्रश्नजातिः ॥ १०१ ॥
केन केषां प्रमोदः स्यादिति पृच्छन्ति केकिनः । सङ्गीतके च कीदृक्षाः प्राह शम्भुर्न भान्ति के ? ॥१०२॥ ॥ नीरवाहरवेणवः ॥ द्विर्गतः ॥
व्याख्या : - केकिनः मयूरा इति पृच्छन्ति केन कृत्वा केषां प्रमोदः स्यात् ? उत्तरम् - नीरवाह :- मेघः, तस्य रवः, तेन नीरवाहरवेण वः युष्माकम्।
शम्भुः प्राह सङ्गीतके नाटके' कीदृशाः के न भान्ति न शोभन्ते? हे हर ! शम्भो ! नीरवाः निर्गतरवा वेणवः वंशाः ॥ द्विर्गतजातिः ॥ १०२ ॥
व्याख्या:- कश्चिद् दैत्यो वदति - हे हरे ! त्वं दनुजान् घ्नन् विनाशयन् शक्रात् किं किमाधाः ? अत्रोत्तरम् - हे कंस ! दैत्यविशेष! मानं पूजामहम् आयं लेभे । 'आयम्' इति 'इण् गतौ' [सार. अ.प.पू. २७६]; [पाणि. धातु. ११२०] इत्यस्याऽनद्यतन्यमिपि रूपम् ।
१.
२.
३.
४.
५.
कश्चिद्दैत्यो वदति दनुजान् घ्नन् हरे ! किं किमाधाः, शक्रात्प्राहुः पृथगुदधिजाकान्तवैवस्वतान्ताः । क्षिप्तः कश्चिद् किल ललनया मन्मथोन्माथदुःस्थः, सख्याऽऽचख्ये कथमथ मनः खेदविच्छेदहेतोः ? ॥ १०३ ॥
॥ कंसमानमायमकालावसान ॥ गतागतजातिः ॥
७६
'समवर्णप्रश्नजातिः' इति न ३ ।
'नाटके' इति न ३ ।
'हे, हर ! शम्भो ! ' इति न २ । 'द्विर्गतजातिः' इति न ३ ।
'कं' इति ३ ।
कल्पलतिकाटीकया विभूषितम्