SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आद भक्षितवान् बकं पक्षिणं कः?' इति प्रश्ने उत्तरं तु- हे यादव! कङ्कः पक्षिविशेषः। समवर्णप्रश्रजाति: ॥ ९९ ॥ प्रपञ्चवञ्चनचणं ध्यात्वा कमपि देहिनम्। विश्वम्भरा यदप्राक्षी-त्ततः प्राप तदुत्तरम्॥१००॥ ॥ कोनालीकः॥[समवर्णप्रश्नजातिः]॥ व्याख्या:- विश्वम्भरा भूः प्रपञ्चवञ्चनचणं कपटेन वञ्चनायां प्रसिद्ध कमपि देहिनं ध्यात्वा मनसि कृत्य यदऽप्राक्षीत्, ततः प्रश्नादेव तदुत्तरं प्राप। तथाहि- 'को ना पुमान् अलीकः?' इति प्र) एतदेवोत्तरम्-हे को! पृथ्वि! नालीक:-मूर्खः, द्यूतकृद् वा ॥ समवर्णप्रश्नजाति: ॥१०० ॥ जात्यतुरगाहितमति-लक्ष्मीपतिमप्सरोविशेषपतिः। - यैर्वर्णैयदपृच्छ-तैरेव तदुत्तरं प्रापत्॥१०१॥ ॥ मेनकाजानेययुता॥[समवर्णप्रश्नजातिः ]॥ व्याख्या:- जात्यतुरगाहितमतिः जात्याश्वस्थापितमति: कश्चिदप्सरोविशेषपतिः लक्ष्मीपतिं प्रति यैर्वणैर्यदपृच्छत्, तैरेव वर्णैस्तदुत्तरं प्रापत्। - तथाहि- मेनकाजानेययुता ?। 'मा-लक्ष्मीः, तस्या इनः स्वामी मेनः, तत्सम्बोधनम्- हे मेन! कृष्ण! का आजानेययुता कुलीनाश्वयुता?' इति प्रश्ने उत्तरम्- मेनका-अप्सरोविशेषो जाया यस्य स मेनकाजानिः, तस्य सम्बोधनम्- हे मेनकाजाने! अप्सरोविशेषपते! जायाया जानिरित्यादेशः, ययुता अश्वता', ययुर्यज्ञहये हये [अनेकार्थसंग्रह १. به سه 'तु' इति न १। __समवर्णप्रश्रजातिः' इति न ३ । 'समवर्णप्रश्रजातिः' इति न ३ । प्रश्रोत्तरैकषष्टिशतकाव्यम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy