________________
नक्षत्रयुक्तम्।
व्याख्या:
यवधान्यम्।
-
१.
नभः कीदृग् भाति ? - भानि सन्त्यत्रेति भवत्
सरुजां रोगिणां के न भक्ष्याः भक्षणार्हाः ? उत्तरम् - यवाः
नृपः कं पाति रक्षति ? देशं जनपदम् ।
पशुपतेरयं पाशुपतः शैवो वादी विवादे उदयद्दुःखः समुत्पद्यमानदुःखः सन् शिवं प्रति किं वक्ति ? हे भव ! शिव ! द्य खण्डय वादे पक्षप्रतिपक्षपरिग्रहरूपे अशं दुःखम्।
७४
क्त्वाप्रत्यय इति पृच्छति - यद्रूपमर्थतः 'निर्दम्भ' इति प्रणिगदेत् वदेत् तद्रूपं विपूर्वान्मीनातेर्धातोः कमपेक्ष्य जायते ? इति प्रश्ने क्त्वाप्रत्ययं प्रत्युत्तरदानाय वक्ति- भवतः - तव क्त्वाप्रत्यस्य स्थाने योऽसौ यप्(ब्) इत्यादेशो भवद्यवा ( बा ) देश:, तमपेक्ष्य 'विमाय' इति भवति । अयमत्रभाव :- यादृशं निर्दम्भशब्देनाऽर्थतो रूपमभिधीयते, तादृशं विपूर्वान्मीनाते: क्त्वाप्रत्ययस्य यबादेशे सति । तथाहिनिर्दम्भशब्देन 'निर्माय' इत्युच्यते, अनेनाऽपि 'विमाय' इति स एवार्थः ॥ व्यस्तद्विः समस्तजातिः १ ॥ ९८ ॥
1
स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी - मप्राक्षीत् किं समोत्तरम् ? ॥ ९९ ॥
॥ यादव(ब )कंकः ॥ व्यस्तसमस्तः [ समवर्णप्रश्नजातिः ] ॥ व्याख्या:- पक्षिविशेषेण जग्धं भक्षितं कमपि पक्षिणं स्मृत्वा वृष्णिवंशोद्भवः यदुकुलोद्भूतः कोऽपि लक्ष्मीं प्रति किं समोत्तरम् अप्राक्षीत् पप्रच्छ ? – यादव ( ब ) कंकः । अयमर्थ:- 'हे इ ! लक्ष्मि !
'व्यस्तद्विः समस्तजाति: ' इति न ३ ।
कल्पलतिकाटीकया विभूषितम्