________________
बिभेमि। 'ओविजी भयचलनयोः' [सार.तु.आ.पृ.३३५] [पाणि. धातु. १३७३] आत्मनेपदित्वाद् वर्तमाना ए परे ‘विजे' इति।
हे जना(नाः)! यूयं मदनं ब्रूत सम्बोधयत- इ:-कामः, तस्य सम्बोधनम्- हे ए! काम!॥ गतागतश्चतुर्गतः ॥ ९६॥ हंहो! शरीर! कुर्याः किमनुकलं त्वं वयोबलविभाद्यैः ?।। मदनरिपोर्दृक् कीदृग् जैनः कथमुपदिशति धर्मम् ?॥९७॥
॥जिनान्यजध्वंसदा॥ वाक्योत्तरजाति:२॥ व्याख्या:-'हंहो!' इत्यामन्त्रणे, 'हे शरीर! त्वं वयोबलविभाद्यैः वयोबलकान्त्यादिभिर्भावैः अनुकलं प्रतिक्षणं किं कुर्याः?' इति प्रश्रे उत्तरं कायो वक्ति- अहं जिनानि हानिं गच्छामीत्यर्थः। 'ज्या वयोहानौ' [सार.क्रया.पर.पृ.३४०]; [पाणि. धातु.१५९८] इत्यस्याशी:प्रेरणयोरानिपि "जिनानि' इति रूपम्।
मदनरिपोः शिवस्य दृग् दृष्टिः कीदृग्? अज:-कामः, तस्य ध्वंसं ददातीति अजध्वंसदा।
जैन:-आर्हतः कथं धर्ममुपदिशति? भो भव्या(व्याः)! यूयं जिनान् यजध्वं पूजयध्वं सदा नित्यम्॥ वाक्योत्तरजातिः ॥ ९७॥ कीदृग्भाति नभो ? न के च सरुजां भक्ष्या नृपः पाति कं?, वादी पाशुपतो विवाद उदयद्दुःखः शिवं वक्ति किम् ?। निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तमीनातेः कमपेक्ष्य जायत ? इति क्त्वाप्रत्ययः पृच्छति॥९८॥
॥ भवद्यवा[ बा ]देशम्॥ व्यस्तद्विःसमस्तः॥ 'गतागतश्चतुर्गतः' इति न ३। 'कीदृक्' इति १, २। 'व्यस्तसमस्तजातिः' इति मु. प्रतौ। 'वाक्योत्तरजातिः' इति न ३ ।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
I ai is
n x
७३