SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ का मलालसामहेला ?-मल:-दुरितम्, अल:-अविद्यमानं दूषणम्, साम-समतां हन्ति सामहः, मलश्च आलश्च सामहश्च ते मलालसामहाः, तेषामिला-भूमिः। 'मलालसामहेला का?' इति प्रश्ने उत्तरम्- कामलालसा महेला, कामलालसा-कामलम्पटा महेलास्त्री॥ समवर्णप्रश्नजातिः ॥ ९५ ॥ विधत्से किं शत्रून् युधि ? नरपते! वक्ति कमला, . वराश्वीयं कीदृक् ? क्व च सति नृपाः स्युः सुमनसः?। विहङ्गः स्यात् कीदृक् ? क्व रजति रमा? पृच्छति हरप्रतीहारी भीरो! किमिह कुरुषे? ब्रूत मदनम्॥ ९६॥ ॥ विजये॥ गतागतश्चतुर्गतः॥ व्याख्याः- हे नरपते! त्वं युधि रणे रिपून् किं विधत्से करोषि? उत्तरम्- अहं विजये विशेषेण जयामि, विपराभ्यां जेरात्मनेपदित्वम्। कमला वक्ति- वराश्वीयं जात्याश्ववृन्दं कीदृक्? या-श्रीः, तत्सम्बोधनम्- हे ये! लक्ष्मि! जवि, जवः-वेगो विद्यते यस्य तद् जवि। क्व सति नृपाः सुमनसः तुष्टचित्ताः स्युः? उत्तरम्- विशेषेण जयः-परेषां हननं विजयः, तस्मिन् विजये सति। विहङ्गः कीदृग् स्यात्? वे:-पक्षिणो जातो विजः । रमा कुत्र रजति रागं कुरुते? अ:-कृष्णः, तस्मिन् ए। अत्र 'स्वरे यत्वं वा' [सा.सू.११२] अनेन 'विजये' इति स्यात्। हरस्य प्रतीहारी हरप्रतीहारी पृच्छति- हे भीरो! कातर! त्वं किं कुरुषे? उत्तरम्- हे विजये! शङ्करप्रतीहारि! अहं विजे १. 'समवर्णप्रश्रजातिः' इति न ३। 'आत्मनेपदम्' इति ३। कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy