________________
व्याख्याः- प्रवीरवरश्चासौ शूद्रकश्च प्रवीरवरशूद्रकः क्षत्रियविशेषः, तं कीदृशं जना जगुः ऊचुः? उत्तरम्-सदा-नित्यमाजिषु यद्वा सतां-शूराणामाजिषु-सङ्ग्रामेषु नवो रागो यस्य सः, तं सदाजिनवरागम्।
पयः जलं वदति- कीदृशीं नृपततिं पाठान्तरे ‘कीदृशं नरपतिम्' वा अर्थिन: याचकाः श्रयन्ति? उत्तरम्- हे अम्बु ! जल! धनं राति-ददाति धनरा, तां धनराम्। नरपतिविशेषणे तु 'धनराम्' इति। विप्प्रत्ययेन पुल्लिङ्गता।
हरिः विष्णुः अगं गोवर्द्धनगिरिं किं चकार? उदासे उत्पाटितवान्। उत्पूर्वः 'असु क्षेपणे' [सार.दि.पर.पृ.३११]; [पाणि. धातु. १२८६] परोक्षे ए परे 'उदासे' इति भवति।
भो बुधा( धाः)! यूयं वदत- विस्मये किं पदम् ? 'बत' इति पदं विस्मये।
जैन: मुनिः जनान् अमृतास्पदं मोक्षपंद निनीषुः नेतुमिच्छुः कथमिवाह पाठान्तरे 'कथमिहाह' ब्रवीति? सदा जिनवरागमं बुधनरा मुदा सेवत। अयमर्थः- हे बुधनराः!-चतुरमनुष्याः! सदा-सर्वदा जिनवरागम-जिनेन्द्रसिद्धान्तं मुदा-हर्षेण सेवत-आराधयत॥ पादोत्तरजातौ वाक्योत्तरजातिः ॥ ९४॥
का दुरितासढूषण-सान्त्वक्षतिभूमिरिति कृते प्रश्रे। यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५॥
॥ कामलालसामहेला॥[समवर्णप्रश्रजातिः]॥ व्याख्याः- दुरितञ्च असदूषणञ्च सान्त्वक्षतिश्च-सामहानिः, तासां भूमिः दुरितासढूषणसान्त्वक्षतिभूमिः का? इति प्रश्ने कृते यत्तस्य प्रश्रस्य समानवर्णं समानाक्षरं तदुत्तरं यूयं विभाव्य कथयत।
प्रश्नोत्तरैकषष्टिशतकाव्यम्