________________
व्याख्याः- आहिताग्नेः अग्निहोत्रिणो विप्रस्य व सदा का विभाव्यते विलोक्यते? उत्तरम्- आयतने गृहे त्रेता अग्नित्रयम्, 'त्रेताऽग्नित्रितये युगे' [ ] इति वचनात्।।
प्रावृषि वर्षासु व कस्मिन् शयितं कं का उपास्ते? पयसि जले मा लक्ष्मीः अं विष्णुं सेवते।
दीर्घक्षणा वक्ति- हे प्रिय! अहं पुरःस्थिताऽपि अग्रेस्थिताऽपि अवीक्ष्यमाणा कं किं करोमि? उत्तरम्- हे आयतनेत्रे! त्वं तापयसि मां कर्मभूतम् ॥ वाक्योत्तरजातिः ॥ ९२ ॥
लक्ष्मीर्वदति बलजितं त्वमीश! किं पीतमंशुकं कुरुषे ?। अपरं पृच्छामि प्रिय! किं कुर्वेऽहं भवच्चरणौ ?॥ ९३॥
॥ सेवसे ॥ गतागतः॥ व्याख्या:- लक्ष्मी: बलजितं नारायणं प्रति वक्ति–'हे ईश! त्वं पीतम् अंशुकं वस्त्रं किं कुरुषे?' इति प्रश्ने हरिराह- हे से! लक्ष्मि! अहं वसे पीतं वस्त्रं परिदधामि। 'वस आच्छादने' [पाणि. धातु. १०९३] आत्मनेपदित्वाद् वर्तमाना ए परे 'वसे' इति रूपम्।
__ पक्षे, हे प्रिय! अपरं पृच्छामि- अहं भवच्चरणौ तव पादौ किं कुर्वे? त्वं सेवसे सेवां कुरुषे॥ गतप्रत्यागतजातिः ॥ ९३॥
प्रवीरवरशूद्रकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिन: ?। चकार किमगं हरिर्वदत विस्मये किं पदं?, निनीपुरमृतास्पदं कथमिवाह जैनो जनान् ?॥ ९४॥ ॥ सदाजिनवरागमंबुधनरामुदासेवत॥पादोत्तरजातौ वाक्योत्तरजातिः॥
'वाक्योत्तरजातिः' इति न ३। २. 'हरिर्वदति' इति २ । ३. 'जिनो' इति १।
कल्पलतिकाटीकया विभूषितम्