________________
कश्चित् तरुः प्रवयणश्च पिराणिका, एतौ पृथग् विबोध्यौ सम्बोधनीयौ- हे शमि! वृक्षविशेष! हे तोत्र ! प्रवयण!
बुद्धभवस्वभावः ज्ञातभवस्वरूपो मुनिः किं वदति ? न खलु निश्चयेन अत्र भवे संसारे कोऽपि शमितः उपशान्तः, शं-सुखमित:प्राप्तः, 'शमितः' इति वा ॥ व्यस्तसमस्तजाति: ॥ ९०॥
कुमुदैः श्रीमान् कश्चि-द्दपात्रं प्रश्रमाह यं भूमेः। तत्रैवोत्तरमलभत कैरवनिवहैरमामत्र ॥ ९१॥
॥[श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः ]॥ व्याख्याः- कुमुदैः श्रीमान् कश्चित् पुमान् भूमेः यं प्रश्नमाह, किम्भूतः कश्चित्? गदानां-रोगाणां पात्रं गदपात्रम्, तत्रैव प्रश्ने उत्तरम् अलभत लेभे।
तथाहि- 'कैः वहै वहामि हे अवनि ! पृथिवि! रमां लक्ष्मीम् अत्र जगति?, 'वह प्रापणे' [सार.भ्वा.उ.पृ. २६८]; [पाणि. धातु. १०७३] आशी:प्रेरणयोरपि 'वहै' इति रूपम्।' अयं प्रश्नः, उत्तरमप्येतदेवअमा:-रोगाः, तेषाममत्रं-भाजनम् अमामत्रम्, तत्सम्बोधनम्- हे अमामत्र! कैरवनिवहैः कुमुदसमूहैः। अयमत्रभावः- यः किल कुमुदैः श्रीमान्, स तैरेव लक्ष्मीमावहतीति ॥ श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः ॥ ९१॥
सदाऽऽहिताग्नेः क्व विभाव्यते का ?, प्रावृष्युपास्ते शयितं क्व का कम् ?। दीर्घक्षणा वक्ति पुरः स्थिताप्यहमवीक्ष्यमाणा प्रिय! किं करोमि कम् ?॥ ९२॥
॥ आयतनेत्रेतापयसिमाम्॥वाक्योत्तरजातिः ॥ १. "व्यस्तसमस्तजातिः' इति न ३। २. 'वाक्योत्तरजातिः' इति न १।
प्रश्नोत्तरैकषष्टिशतकाव्यम्