________________
॥ [ श्लोक ]मध्यस्थितसमवर्णप्रश्नजातिः ॥ व्याख्या:- मुनिः खड्गश्रियोः खड्गश्रियौ प्रति वा यं स्वकम् आत्मीयं, पाठान्तरे 'स्वगम्' वाऽऽत्मगतं यं प्रश्नमब्रवीत्, ततः तत्रेव प्रश्ने उत्तरं आपत् प्रापत् ।
खड्गश्रियोर्यमब्रवीत् प्रश्रं मुनिः किल स्वकम् । तत्रैव चापदुत्तरं कामेसिसेविषायते ॥ ८९ ॥
तथाहि - असि: खड्गः, सा लक्ष्मीः, तयोः सम्बोधनम् - 'हे असिसे! का मे मम विषायते विषवदाचरति ?' इति प्र उत्तरमेतदेवहे यते ! मुने! कामे कामविषये सिसेविषा सेवितुमिच्छा ॥ अत्र श्लोके नाराचकं छन्दः, तल्लक्षणं चेदम् नाराचकं तरौ लगौ [ जयकीर्ति. छन्दोनुशासन. २७० ] इति ॥ श्लोर्कमध्यस्थितसमवर्णप्रश्नजातिरियम् ॥ ८९ ॥
कीदृग्भवेत् करजकर्त्तनकारि शस्त्रं ? वाकारि किं रहसि केलिकलौ भवान्या ? | कश्चित्तरुः प्रवयणश्च पृथग् विबोध्यौ, किं वा मुनिर्वदति बुद्धभवस्वभावः ? ॥ ९० ॥
॥ नखलुभवेकोपिशमितोत्र ॥ [ व्यस्तसमस्तजातिः ] ॥ व्याख्या:- करजा:-नखाः, तेषां कर्त्तनकारि-छेदनकारि करजकर्त्तनकारि शस्त्रं कीद्दग् भवेत् ? उत्तरम् - नखान् लुनातीति नखलु ।
भवान्या पार्वत्या रहसि एकान्ते केलिकलौ क्रीडाकलहे क्व किमकारि ? भवे ईश्वरे अकोपि कुपितम् ।
२.
६८
'श्लोक' इति न १, २ ।
'रहस्ये' इति २ ।
कल्पलतिकाटीकया विभूषितम्