________________
गाय॑म्।' अयं भावः- अग्निज्वालातुल्यः कोपः, पर्वततुल्यो मानः, वंशीकुडङ्गतुल्या माया, समुद्रतुल्यं गाय॑म् हे इ! लक्ष्मि!' इति॥ समवर्णप्रश्नोत्तरजातिरियम् ॥ ८७॥ ।
कीदृक्षोऽहमिति ब्रवीति वरुणः? काप्याह देवाङ्गना, हंहो! लुब्धक! को निहन्ति हरिणश्रेणी वनान्याश्रिताम् ?। कान्तन्यस्तपदं स्तने रमयति स्त्री किं ? विधिर्वक्त्यदः, किं अन्नोन्नविरोहवारणकए जंपंति धम्मस्थिणो॥ ८८॥
॥अवरोप्परंभेमच्छरोनखमो॥ भाषाचित्रकजातिः॥ - व्याख्याः- 'अहं कीदृक्षः?' इति वरुणो ब्रवीति। उत्तरम्अवरः अप्प! अप:- जलं पातीति अप्पः, तस्य सम्बोधनम्- हे अप्प! वरुण! त्वम् अवरः। अवरस्यां दिशि वर्तत इत्यवरः, पश्चिमदिग्वर्त्तित्वात्, अथवा अवरः-पश्चिमापतिः।
कोऽपि देवाङ्गना आह- हंहो लुब्धक! भो व्याध! वनान्याश्रितां हरिणश्रेणी को निहन्ति? हे रम्भे! देवाङ्गने! मम शरो मच्छरः।
विधिः ब्रह्मा अदो वक्ति- किं स्तने कान्तन्यस्तपदं स्त्री रमयति आह्लादयति? उत्तरम्-नखम् ओ! 'उ:- ब्रह्मा, तस्य सम्बोधनम्हे ओ!-ब्रह्मन्! नखं-नखक्षतम्, कारणे कार्योपचारात्। पुनपुंसकलिङ्गत्वाद् नखशब्दस्याऽत्र नपंसकत्वम्।
पक्षे, धर्मार्थिनः पुरुषा अन्योन्यविरोधवारणकृते परस्परविरोधनिरोधाय किं कथयन्ति ? प्राकृतेनोत्तरम्- 'अवरोप्परं 'ति परस्परं 'भे' भवतां 'मच्छरो'त्ति मत्सरः द्वेष: न खमो 'त्ति न क्षमः न युक्त इति॥ भाषाचित्रिजातिः॥
१.
'ओ' इति न १ ।
प्रश्रोत्तरैकषष्टिशतकाव्यम्
६७