________________
स्मृतिवादिनः ज्योति:शास्त्रवादिनो मां कीदृक्षम् आहुः कथयन्ति? उत्तरम्- राहो! हे विधुन्तुद! निश्शब्दो निशार्थे व्यञ्जनान्तोऽप्यस्ति। ततोऽनिशि- अरात्रौ, दिने इत्यर्थः, अविरल:-निरन्तरो गमः-गतिर्यस्य सः, तम् अनिशविरलगमम्। यदा हि राहोर्दिवाचारो भवति तदा रविग्रहणं भवतीति।
वा पक्षान्तरे, इह जगति दैवज्ञवरैः मौहूर्तिकप्रधानैः शुभावहेषु शोभनेषु कार्येषु प्रायेण बाहुल्येन का न स्तुता वर्णिता? उत्तरं प्रत्यागतेनमङ्गलरविशनिहोरा। होराशब्दः प्रत्येकं योज्यते। ततः मङ्गलहोरा, रविहोरा, शनिहोरा च ॥ शास्त्रजोत्तरजातौ गतप्रत्यागतजातिः॥ ८६॥
अग्निज्वालादिसाम्याय यं प्रभू श्रीरुदैरयत्। तेनैव समवर्णेन प्रापदुत्तममुत्तरम्॥ ८७॥
॥कोपमानलाभाये॥ समवर्णप्रश्नजातिः॥ व्याख्या:- श्री: लक्ष्मीः अग्निज्वालादिसाम्याय यं प्रश्रम् उदैरयत् अवदत्, तेनैव समवर्णेन प्रश्न उत्तममुत्तरं प्रापत्।
तथाहि- 'कोपमानलाभावे ?, अनलस्य-अग्नेरिव आभा-छाया आद्या-प्रथमा यस्मिन् तद् अनलाभाद्यम्, तस्मिन् अनलाभाद्ये वस्तुनि का उपमा?' इति प्र) उत्तरम्- कोपमानलाभाद्या। हे इ! लक्ष्मि! कोपश्च मानश्च लाभश्च कोपामनलाभाः, ते आद्या यस्यामुपमायां सा तथा। अयमत्रभाव:- अग्निज्वालासदृशः कोपः, आदिशब्दात् पर्वतादि। ततः पर्वतसदृशो मानः, खञ्जनसदृशो लाभ:-लोभ इत्यर्थः। उत्तरेऽनुक्ताऽपि आदिशब्दाद् माया लभ्यते, तया सदृशी गोमूत्रिकातीववक्रा।
क्वचिदवचूरौ तु 'कोपमानलाभाये- अनलस्याऽऽभा-दीप्तिराद्या यस्य वस्तुनः-पर्वतवंशीकुडङ्गसमुद्रादेः तत्, तस्मिन् का उपमा?' अयं प्रश्नः। उत्तरं तु 'कोपमानलाभाद्याः। आद्यशब्दाद् माया ज्ञेया। लाभ:
६६
कल्पलतिकाटीकया विभूषितम्