SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ किमकरोत्?' अतुभत् विनाशितवान् हे रते! कामप्रिये! ‘णभ तुभ हिंसायाम्' [पाणि. धातु. १३२०-१३२१] भूतेऽसौ पुषादित्वात् अतुभत्' इति रूपम्। ____ पक्षे, 'अहं लाभमिच्छुः मनोगृहगतं शम्भुं सदाऽपि रक्षामि' इति स्वं मतम् अभिप्रायम् ऊचुषे पुरुषाय मुनिः कामाशिषं यच्छति ददाति? उपायं स तनोतु भद्र! ते। हे भद्र ! स:- शम्भुस्ते-तव उपायम्लाभोपायं तनोतु-विस्तारयतु ॥ वाक्योत्तरजातिः ॥ ८४॥ सरभसमभिपश्यन्ती किमकार्षीः त्वं [ कं] मम त्वमिन्दुमुखि!? नयनगतिपदं कीदृग्(क्) पूजयतीत्यर्थमभिधत्ते ?॥ ८५॥ ॥अपप्रथमङ्गजम्॥ [विषमजातिः ]॥ - व्याख्या:- हे इन्दुमुखि! चन्द्रवदने! त्वं सरभसम् अभि संमुखं पश्यन्ती मम कम् किमकार्षीः? उत्तरम्- अपप्रथम् अहं विस्तारितवती अङ्गजं कामम्।। तथा नयनगतिपदं कीदृशं सन् ‘पूजयति' इत्यर्थम् अभिधत्ते वक्ति? उत्तरम्- अपप्रथमम् न विद्यते पकारात् प्रथमौ नकारौ यत्र तद् अपप्रथमम्। तथा गजम्, गस्य स्थाने जकारो यत्र तद् गजम्। ततो 'यजति' इति भवति ॥ विषमजातिः॥ ८५॥ विधुन्तुदः प्राह रविं ग्रहीतुं कीदृक्षमाहुः स्मृतिवादिनो माम् ?। का वा न. दैवज्ञवरैः स्तुतेह प्रायेण कार्येषु शुभावहेषु?॥८६॥ ॥राहोनिशविरलगमं ॥गतागतः॥ व्याख्या:- विधुन्तुदः प्राह वक्ति- रविं ग्रहीतुं ग्रसितुं 'कम्' इति न २। 'च' इति २। २. प्रश्रोत्तरैकषष्टिशतकाव्यम् ६५
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy