SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ धातु. ९९९] अस्य धातो: भूते काले सिपि प्रेरणे ञिप्रत्यये 'असस्मरः ' इति रूपम् ॥ वर्द्धमानाक्षरजातिः ॥ ८२ ॥ रतये किमकुर्वातां परस्परं दम्पती चिरान् मिलितौ ? | मोक्षपथप्रस्थितमतिः परहरति च कीदृशीं जनताम् ? ॥ ८३ ॥ ॥ अतत्त्वरताम्॥ [ नामाख्यातजातिः ] ॥ व्याख्या:- चिरान्मिलितौ दम्पती जायापती रतये सुरताय किमकुर्वाताम् ? उत्तरम् - अतत्त्वरतां कामाय शीघ्रीभवतः स्म । पक्षे, मोक्षपथप्रस्थितमतिः, पाठान्तरे 'मोक्षपथप्रथितमतिः ' वा कीदृशीं जनतां परहरति ? न तत्त्वे रता अतत्त्वरता, ताम् अतत्त्वरताम्। अत्राऽऽर्यायां 'मोक्षपथप्रस्थितमतिः' अस्मिन् पाठे प्रवर्णात्पूर्वस्य ह्रस्वत्वं ह्रादिसंयोगवर्जनान्न गुरुत्वम् ॥ नामाख्यातजातिः ॥ ८३ ॥ हे नार्यः ! किमकार्षुरुद्गतमुदो युष्मद् वराः काः किल ? क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? | इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति ? ॥ ८४ ॥ ॥ उपायंसतनोतुभद्रते॥ [ वाक्योत्तरजातिः ] ॥ व्याख्या:- 'हे नार्यः ! युष्माकं वराः - भर्त्तारो युष्मद्वरा उद्गतमुदः समुत्पन्नहर्षाः' सन्तः किमकार्षुः ?' इति प्रश्ने नार्य उत्तरयन्ति - उपायंसत परिणीतवन्त नः अस्मान् । 'उपायंसत' इति उपपूर्वस्य 'यम उपरमे ' [सार.भ्वा.पर.पृ. २३८] ; [पाणि धातु. १०५३] इत्यस्य विवाहार्थे आत्मनेपदित्वाद् भूतेऽसौ प्रथमपुरुषबहुवचने रूपम्। कामप्रिया इति ब्रूते - 'कुद्धः सन् कामरिपुः शिवः स्मरं ‘समुत्पन्नहर्षाः' इति न २ । ६४ कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy