________________
चन्द्रोदये सपदि शीघ्रम् अहं किमकरवम् ? त्वं समुदलसः समुल्लसितवान् । अथवा सम् सामस्त्येन उत् प्राबल्येन अलसः शब्दितवान्, 'तुस् ह्रस् ह्रस शब्दे' [पाणि धातु. ७५६, ७५७, ७५८] लस् इत्यस्य रूपम् ।
'सुकृतिनामुद्यमैः अलं सृतम्' इत्युक्तेः कः कीदृशो भवति ? समुद् (त्) सहर्षः अलसः आलस्योपहतः ॥ नामाख्यातजातिः१॥ ८१॥ वदति हरिरम्भोधिं पाणिं श्रियः करवाणि किं ?, किमकुरुत भो ! यूयं लोकाः ! सदा निशि निद्रया । मुनिरिह सतां वन्द्यः कीदृक् ? तथाऽस्मि ! गुरुर्बुवे, तव जडमते! तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥ ८२ ॥
॥ असस्मरः ॥ वर्धमानाक्षरजातिः ॥
व्याख्याः – हरिः अम्भोधिं समुद्रं प्रति वदति - अहं श्रियः पाणिं किं करवाणि ? उत्तरम् - हे अ ! विष्णो ! त्वं अस गृहाण, 'अ स दीप्तयादानयो: ( गतिदीप्त्यादानेषु ) ' [ पाणि. धातु. ९५०] इत्यस्य रूपम् ।
भो लोकाः ! यूयं निशि निद्रया किम् अकुरुत कृतवन्तः ? प्राहुः-वयम् असस्म सुप्तवन्तः । 'षस स्वप्ने' [ पाणि. धातु. ११५४] इत्यस्य अदादिधातोरनद्यतन्यामुत्तमपुरुषबहुवचने 'असस्म' इति रूपम्।
इह जगति कीदृग् मुनिः सतां वन्द्यो भवति ? सह स्मरेण वर्त्तत इति सस्मरः, न सस्मरो असस्मरः कामविकाररहित इत्यर्थः ।
तथा, अस्मि ! अहं गुरुः ब्रुवे वच्मि - हे जडमते ! अहं तव तत्त्वं भूयोऽपि किम् अचीकरम् अकारयम् ? उत्तरं जडः प्राह :त्वम् असस्मरः स्मारितवान् । 'स्मृ-ध्यै ( स्मृ) चिन्तायाम् ' [पाणि.
२.
'नामाख्यातजातिः' इति न २ ।
'कीदृग्' इति १, ३ ।
३.
४.
प्रश्नोत्तरैकषष्टिशतकाव्यम्
'अहम्' इति न ३ । 'हे अ!' इति न २ ।
६३