________________
____ पक्षे, कुत्सितविलासः प्रभणति- पिशुनजनहृदयं, पाठान्तरे 'पिशुनहृदयं च' दुर्जनचित्तं कीदृशकं भवति? उत्तरम्- अधमा लीला यस्य स तथा, तत्सम्बोधनम्- हे अधमलील! कुत्सितविलास! 'वंक' वक्रं कुटिलमित्यर्थः॥ भाषाचित्रद्विर्गतजातिः॥ ७९ ॥
अयि! सुमुखि! सुनेत्रे! सुभ्र! सुश्रोणि! मुग्धे!, वरतनु! कलकण्ठि! स्वोष्ठि! पीनस्तनि! त्वम्। . वद निजगुणपाशैः कं करोषीह केषां ?, सुगुरुरपि च दद्यात् कीदृर्शामत्र विद्या: ?॥ ८०॥
___ ॥ नाहंयूनाम्॥[ओजस्विजाति: ]॥ व्याख्याः- 'अयि' इत्यामन्त्रणे। हे सुमुखि! सुनेत्रे! इत्यादीनि सम्बोधनपदानि सुगमानि। हे मुग्धे! त्वं वद- निजगुणपाशैः केषां कं करोषि? 'णह बन्धने' [सार.दि.उ.पृ. ३१४]; [पाणि. धातु. १२४२], नहनं नाहः, तं नाहं बन्धनं यूनां तरुणानाम्।
___'अपि च' इति पक्षान्तरे, सुगुरुः कीदृशां कीदृशानाम् अत्र विद्याः पाठान्तरे वा 'मन्त्रविद्याः' दद्यात्? न अहं यूनाम् अनहङ्कारिणामित्यर्थः॥ ओजस्विजातिः ॥ ८०॥
पृच्छामि जलनिधिरहं किमकरवं सपदि शशधराभ्युदये ?। अलमुद्यमैः सुकृतिना-मित्युक्तेः कीदृशः कः स्यात् ?॥८१॥
॥ समुदलसः॥ [नामाख्यातजातिः ]॥ व्याख्याः- अहं जलनिधिः पृच्छामि- शशधराभ्युदये
'किम्' इति मु. प्रतौ। 'कीदृशाम्' इति मु. प्रतौ। 'मन्त्रविद्याम्' इति मु. प्रतौ। 'ओजस्विजातिः' इति न ३।
कल्पलतिकाटीकया विभूषितम्