Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 138
________________ नक्षत्रम्, तस्य सा-श्रीः, तत्सम्बोधनम्- हे भसे! नक्षत्रलक्ष्मि! वासे व्यासे, व्यासः ताली दत्वा कवित्वं करोतीत्यर्थः। त्वं भण- कुत्र शुद्धे वयं मनो धरामः? वासे जिनमतादौ, भगवदाज्ञारतयतीनां बोधविशेषे वा॥ मञ्जरीसनाथजातिः ॥ ११५॥ विष्णुः प्राह- हे जन्तो! त्वं स्वकर्मविवशः सन् व कौ किं कुरुषे? अहं सेवे अनुभवामि देहश्च तपश्च देहतपौ कायसन्तापौ, 'तप सन्तापे' [पाणि. धातु. १०५४] तपतीति तपः, अच्प्रत्ययः, हे अ! विष्णो! भवावासे संसारवासे। __ प्रत्यागतपक्षे, करवालो वक्ति-का कुत्र क्रियमाणा कीदृग् भवति? सेवावा रक्षिका, अवतीति अवा, भवपातं हन्तीति भवपातहः, स चाऽसौ देवश्च भवपातहदेवः, तस्मिन् भवपातहदेवे हे असे! कृपाण! 'सेवेदेहतपावभवावासे' अस्मिन्नुत्तरे पूर्वे प्राकृतभाषया मञ्जरी॥ तदनुगतप्रत्यागतजातिः॥ ११६॥ कपटपटुदेवतार्चा बुद्धिप्रभूतोद्भवो नरः स्मृत्वा। समवर्णवितीर्णोत्तर-मकष्टमाचष्ट कं प्रश्नम्॥ ११७॥ ॥ कंसमायध्यायति जनः॥ [समवर्णप्रश्रजाति: ]॥ व्याख्याः- बुद्धिप्रभूतोद्भवो नरः कपटपटुदेवता! मायाविदेवविशेषपूजां स्मृत्वा कं प्रश्रमाचष्ट? किम्भूतं प्रश्रम्? समैर्वणैर्वितीर्णं-दत्तमुत्तरं यत्र सः, तं समवर्णवितीर्णोत्तरम्। तथाहि- कं समायं मायासहितं ध्यायति पूजयति जनः ? इति प्रश्ने उत्तरम्- कंसं मीनाति-हिनस्तीति कंसमायः, कर्मण्यण, तं कंसमायं विष्णुं धी:-बुद्धिरायतिः- दीर्घता प्रभुतेत्यर्थः, 'प्रभोर्दीर्घस्य भावः' इति कृत्वा धीश्च आयतिश्च ध्यायती, ताभ्यां जातो ध्यायतिजः, स चाऽसौ ना च पुरुषः, स तथा, तत्सम्बोधनम् -हे ध्यायतिजनः । समवर्णप्रश्रजातिः ॥११७॥ प्रश्रोत्तरैकषष्टिशतकाव्यम्

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186