________________
नक्षत्रम्, तस्य सा-श्रीः, तत्सम्बोधनम्- हे भसे! नक्षत्रलक्ष्मि! वासे व्यासे, व्यासः ताली दत्वा कवित्वं करोतीत्यर्थः।
त्वं भण- कुत्र शुद्धे वयं मनो धरामः? वासे जिनमतादौ, भगवदाज्ञारतयतीनां बोधविशेषे वा॥ मञ्जरीसनाथजातिः ॥ ११५॥
विष्णुः प्राह- हे जन्तो! त्वं स्वकर्मविवशः सन् व कौ किं कुरुषे? अहं सेवे अनुभवामि देहश्च तपश्च देहतपौ कायसन्तापौ, 'तप सन्तापे' [पाणि. धातु. १०५४] तपतीति तपः, अच्प्रत्ययः, हे अ! विष्णो! भवावासे संसारवासे।
__ प्रत्यागतपक्षे, करवालो वक्ति-का कुत्र क्रियमाणा कीदृग् भवति? सेवावा रक्षिका, अवतीति अवा, भवपातं हन्तीति भवपातहः, स चाऽसौ देवश्च भवपातहदेवः, तस्मिन् भवपातहदेवे हे असे! कृपाण! 'सेवेदेहतपावभवावासे' अस्मिन्नुत्तरे पूर्वे प्राकृतभाषया मञ्जरी॥ तदनुगतप्रत्यागतजातिः॥ ११६॥
कपटपटुदेवतार्चा बुद्धिप्रभूतोद्भवो नरः स्मृत्वा। समवर्णवितीर्णोत्तर-मकष्टमाचष्ट कं प्रश्नम्॥ ११७॥
॥ कंसमायध्यायति जनः॥ [समवर्णप्रश्रजाति: ]॥ व्याख्याः- बुद्धिप्रभूतोद्भवो नरः कपटपटुदेवता! मायाविदेवविशेषपूजां स्मृत्वा कं प्रश्रमाचष्ट? किम्भूतं प्रश्रम्? समैर्वणैर्वितीर्णं-दत्तमुत्तरं यत्र सः, तं समवर्णवितीर्णोत्तरम्।
तथाहि- कं समायं मायासहितं ध्यायति पूजयति जनः ? इति प्रश्ने उत्तरम्- कंसं मीनाति-हिनस्तीति कंसमायः, कर्मण्यण, तं कंसमायं विष्णुं धी:-बुद्धिरायतिः- दीर्घता प्रभुतेत्यर्थः, 'प्रभोर्दीर्घस्य भावः' इति कृत्वा धीश्च आयतिश्च ध्यायती, ताभ्यां जातो ध्यायतिजः, स चाऽसौ ना च पुरुषः, स तथा, तत्सम्बोधनम् -हे ध्यायतिजनः । समवर्णप्रश्रजातिः ॥११७॥
प्रश्रोत्तरैकषष्टिशतकाव्यम्