________________
भूमी कत्थ ठिया' ? भणेइ गणिया रन्नो पहुत्तं कहिं ?, केली कत्थ? करेसि किं हरिण! हे! दिढे कहिं तक्खणं?। आमंतेसु करेणुयं पभणए नक्खत्तलच्छी कहि, लोया बिंति कयत्तणं? भण कहिं सुद्धे धरेमो मणं?॥११५॥
॥ सेवेदेहतपावभवावासे॥ मञ्जरीसनाथजातिः॥ किं कुरुषे को जन्तो! विष्णुः प्राह क्व कर्मविवशस्त्वम् ?। का क्रीयमाणा कीदृक् कुत्र भवेद्वक्ति करवालः ?॥११६॥
॥सेवेदेहतपावभवावासे॥ गतागतजातिः॥ युगलकम्॥ क्रमेण व्याख्याः- भूमिः कुत्र स्थिता? सेसे शेषनागे।
गणिका भणति- राज्ञः प्रभुत्वं कुत्र? हे वेसे! वैश्ये! देशे जनपदे।
केलिः क्रीडा कुत्र? हासे हास्ये।
हे हरिण! त्वं कस्मिन् दृष्टे किं करोषि? अहं तसे त्रसे, 'सी उद्वेगे' [पाणि. धातु. ११९२] उद्विजे, पासे पाशे- बन्धनविशेषे दृष्टे सति।
करेणुकां हस्तिनीम् आमन्त्रयस्व- वसे! वशे! करेणुके!, ‘वशा नार्यां वन्ध्यगव्यां, हस्तिन्यां दुहितर्यपि' [अनेकार्थसंग्रह २/ ५४०] इत्युक्तेः।
नक्षत्रलक्ष्मीः प्रभणति-लोकाः कुत्र कवित्वं काव्यकलां बुवते, पाठान्तरे 'तालीलद्धकइत्तणं- तालीलब्धकवित्वं कुत्र?' भं
१. २.
"ठिआ' इति मु. प्रतौ। 'करेणुअं' इति १, मु. प्रतौ च। 'लोआ' इति १, मु. प्रतौ च। 'कीदृग्' इति ।
कल्पलतिकाटीकया विभूषितम्