________________
कीदृशो भवति ? अत्रोत्तरम् - सदयः सह दयया वर्त्तत इति सदयः सन् परभवे तु सन्-शोभनोऽयः - लाभो, भाग्यं वा यस्य स सदयो भवति ।
भो विद्वन्! वद का कीदृग् गदवतां रोगिणां दोषत्रयच्छित् वातपित्तकफरूपदोषत्रयछेदिका भवति ? मधुरता माधुर्यं मधुनि रता मधुरता मधुसक्ता, मधुसम्बन्धि माधुर्यं दोषत्रयापहारि भवतीति ।
'पुरि नगर्यां का कीदृक्षा न भवति ?' इति वारिभृङ्गौ आहतुः, पाठान्तरे 'ब्रह्मभृङ्गौ' वा ब्रूतः । उत्तरम् - विपण्यावली हट्टश्रेणिः विपण्या विक्रेयद्रव्यरहिता न भवति, आपश्च अलिश्च अबली, तत्सम्बोधनम् - हे अबली! जलमधुकरौ !, ब्रह्मभृङ्गसम्बोधने तु उ:ब्रह्मा, अलिः- भृङ्गः, उश्च अलिश्च वली, तत्सम्बोधनम् - हे वली !
कीदृश्यः कुवलयदृशः स्त्रियः कामिनां कीदृशः किम्भूता भवन्ति ? गौरं वपुर्यासां ता गौरवपुषः गौराङ्गयो नार्यः, गौरवं पुष्णन्तीति गौरवपुषः, गौराङ्गीषु स्त्रीषु प्रायः कामिनो गौरवं कुर्वन्ति ॥ अत्र पादचतुष्टयेऽपि पृथक् पृथगुत्तरम् ॥ द्विः समस्तजातिविशेषः ॥
मुदा श्रयति कं ब्रूते वर्णः कोऽपि सदैव का ? । ध्वान्तेऽन्ययान्वितं वीक्ष्य किं प्राहोमा हरं रुषा ? ॥ ११४ ॥ ॥ अन्धकारे ॥ चतुर्गतः ॥
व्याख्या : - कोऽपि वर्णः अक्षरः ब्रूते - का कं मुदा श्रयति ? अं कृष्णं हे धकार ! ई लक्ष्मीः ।
ध्वान्तेऽन्यया स्त्रिया अन्वितं युक्तं हरं दृष्ट्वा उमा गौरी रुषा किं प्राह ? अन्धकारे तमसि, अन्धको नाम दैत्यः, तस्याऽरिः अन्धकारिः, तस्य सम्बोधनम् - हे अन्धकारे ! शिव ! रे अन्ध ! गताक्ष ! का रे ! इयं का? ॥ चतुर्गतजातिः ॥ ११४ ॥
प्रश्नात्तरैकषष्टिशतकाव्यम्
८३