________________
भृङ्गः प्राह नृपः क्व रज्यति चिते ? स्थैर्यं न कस्मिन् जने ?, युद्धं वक्ति दुरोदरव्यसनिता कुत्र? क भूम्ना गुणा:?॥ कस्मिन् वातविधूनिते तरलता ? ब्रूते सखी काऽपि मे, कोद्गच्छत्यभिवल्लभं विलसतोऽसङ्कोचने लोचने ?॥११८॥
॥अव(ब)लोकनकुतूहले॥ अष्टदलं विपरीतं कमलम्॥ व्याख्या:- भृङ्गः प्राहः-नृपः क्व चिते मिलिते बलिष्ठे वा रज्यति? हे अले! भ्रमर! बले सैन्ये।
कस्मिन् जने न स्थैर्यम्? लोले चपले।
युद्धं वक्ति- दुरोदरव्यसनिता द्यूतव्यसनिता कुत्र? हे कले! युद्ध! नले राजनि।
भूम्ना प्रायेण गुणा: क्व? कुले उत्तमवंशे।
वातेन विधूनिते-चालिते वातविधूनिते कस्मिन् तरलता भवति? तूले अर्कतूले।
काऽपि सखी ब्रूते- 'अभिवल्लभं प्रियं प्रति व उद्गच्छति सति मे मम असङ्कोचने निर्निमेषे लोचने विलसतो भवतः? हे हले!. सखि! अवलोकनकुतूहले अवलोकनकौतुके उद्गच्छति सति॥ विपरीतमष्टदलं कमलम् ॥ ११८॥
१.
'विपरीतमष्टदलं कमलम्' इति न ३।
कल्पलतिकाटीकया विभूषितम्