________________
कीदृक्षमन्तरिक्षं स्यान-वग्रहविराजितम् ?। हनूमता दह्यमानं लङ्कायाः कीदृशं वनम् ?॥ ११९॥
गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्॥[द्विःसमस्तः ] व्याख्याः- नवग्रहविराजितम् अन्तरिक्षं गगनं कीदृक्षं स्यात्? उत्तरम्- गुरु:-बृहस्पतिः, शिखी-केतुः, विधुः-चन्द्रः, रविः-सूर्यः, ज्ञ:-बुधः, सितः-शुक्रः, मन्दः-शनैश्चरः, आर:-मङ्गलः, अगुः-राहुः, ततो द्वन्द्वः, तै: रुचितं- दीप्तं गुरु शिखिविधुरविज्ञसितमन्दारागुरुचितम्। 'अगुः' इति राहोर्नाम, यदुक्तं बृहज्जातके ग्रहनामानि वदता वराहमिहिरेण
जीवोङ्गिराः सुरगुरुर्वचसा पतीज्यो( ज्यः ), शुक्रो भृगु गुसुतः सित आस्फुजिच्च। राहुस्तमोऽगुरसुरश्च शिखी च केतुः, पर्यायमन्यदुपलभ्य वदेच्च लोकात्॥१॥[बृहज्जातक२/३ ] इति।
पक्षे, हनूमता दह्यमानं लङ्कायाः वनं कीदृशम्? गुरु:विस्तीर्णः, शिखी-वह्निः, तस्य विधुरः-वैधुर्यम्, तत्र विज्ञाः, तस्य विज्ञा वा, ते च ते सितमन्दाराश्च-अगुरवश्च, ते तथा, तैः चितम्व्याप्तं गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्॥ सकौतुकजातो द्विःसमस्तः ॥ ११९ ।।
श्रुतिसुखगीतगतमनाः श्रीसुतबन्धनवितर्कणैकरुचिः। प्रश्नं चकार यं किल तदुत्तरं प्राप तत एव॥ १२०॥
॥काकलीभूयमनोहरते॥समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः - श्रुतिसुख-श्रुतिसुखकरं यद् गीतम्, तत्र गतं- लग्नं मनो यस्य स श्रुतिसुखगीतगतमनाः। तथाहि- श्रीसुत:-कामः, तस्य
प्रश्रोत्तरैकषष्टिशतकाव्यम्