SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ बन्धनम्, तत्र वितर्कणम्, तत्र एका रुचि :- अभिलाषो यस्य सः श्रीसुतबन्धनवितर्कणैकरुचिः यं प्रश्नं चकार तत एव प्रश्नादुत्तरं प्राप । तथाहि - 'का कलीभूय - मधुरीभूय मनः चित्तं हरते?' इति प्रश्रे उत्तरम् - काकली गीतम्, ई-लक्ष्मीः, तस्या भवतीति ईभूः, तस्य यमनं - बन्धनम्, तत्र ऊहः - वितर्कः, तत्र रतिर्यस्य स तथा, तस्य सम्बोधनम्- हे ईभूयमनोहरते ! ॥ समवर्णप्रश्नोत्तरजातिः ॥ १२० ॥ स्मरगुहराधेयान् किल दृष्ट्वाग्रेऽङ्गारशकटिकाऽपृच्छत्। किं शत्रुश्रुतिमूलं प्रश्नाक्षरदत्तनिर्वचनम्॥ १२१॥ इहारिकर्णजाहसन्तिके ॥ समवर्णप्रश्नोत्तरजातिः ॥ व्याख्या:- अङ्गारशकटिका स्मरगुहराधेयान् कामकार्तिकेयकर्णसुतान् अग्रे दृष्ट्वा शत्रुश्रुतिमूलं प्रति प्रश्नाक्षरदत्तनिर्वचनं यथा स्यात्तथा किम् अपृच्छत् ? तथाहि - 'इह अत्र रे अरिकर्णजाह! अरिकर्णमूल ! मूले जाहच् प्रत्ययः, सन्ति विद्यन्ते के?' इति प्रश्रे उत्तरम् - इ:- कामः, हरस्याऽपत्यं हारि:- कार्तिकेयः, कर्णज :- कर्णसुतः, ततो द्वन्द्वे इहारिकर्णजा अग्रे सन्ति हे हसन्तिके! अङ्गारशकटिके ! ॥ समवर्णप्रश्नोत्तरजातिद्वयम् ॥ १२१ ॥ जन्तुः कश्चन् वक्ति का क्व रमते ? प्रोचुः कचान् कीदृशान् ?, ब्रह्मादित्रयमत्र कः क्रशयति ? क्वेडागमः स्याज्जनेः ? | किं वाऽनुक्तसमुच्चये पदमथो धातुश्च को भर्त्सने ?, किं सूत्रं सुधियोऽध्यगीषत तथा विश्रान्तविद्याधराः ? ॥ १२२ ॥ १. ८८ ܐ ॥ झष्येकाचोवशः स्थ्वोश्च भष् ॥ [ सौत्रजातिः ] ॥ 'द्वयम्' इति न मु० प्रतौ । कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy