________________
व्याख्याः- कश्चन् जन्तुर्वक्ति- का क्व रमते? हे झषि! शफरि! ई श्रीः ए विष्णौ रमते।
जनाः कचान् केशान् कीदृशान् प्रोचुः? कं-मस्तकम् अञ्चन्तिपूजयन्तीति काञ्चः, तान् काचः, शसि परे रूपमिदम्।
अत्र जगति कः ब्रह्मादित्रयं ब्रह्मशिवविष्णुरूपं क्रशयति कृशं करोति? उ:-ब्रह्मा, उ:-शङ्करः, अ:-कृष्णः, उश्च उश्च अश्च वाः, तान् श्यति-तनूकरोतीति वशः।
जनेः जनधातोः क्व इडागमः स्यात्? उत्तरम्- स्ध्वोः सकारध्वकारप्रत्यययोः परयोः ।
अनुक्तसमुच्चये किं पदम्? चः चकारः।
अथो अथ भर्त्सने को धातुः? भष्, 'भष भर्त्सने' [पाणि. धातु. ७४१] इति वचनात्।
तथा 'विश्रान्तविद्याधराः सुधियः वैयाकरणाः किं सूत्रम् अध्यगीषत पेठुः?' इति प्रश्ने समस्तेनोत्तरम्- 'झष्येकाचो वशः स्थ्वोश्च भष्' [ ] इति सूत्रं विश्रान्तविद्याधरव्याकरणस्य॥ सौत्रजातिः ॥ १२२ ॥
याञ्चार्थविततपाणिं द्रमकं स्मृत्वा सदर्थलाभेन। यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं लेभे॥१३॥
॥ तत्त्वाययाचकरंकः॥ समवर्णप्रश्रजातिः॥ व्याख्याः- आर्यार्थः सुगम एव। 'तत्त्वा विस्तार्य करं हस्तं ययाच याचितवान् कः कर्ता?' इति प्रश्ने उत्तरमिदमेव- तत्त्वाय लाभनिमित्तं याचकश्चाऽसौ रङ्कश्च याचकरङ्कः, करं प्रसार्य याचितवानित्यर्थः॥ समवर्णप्रश्रजातिः ॥ १२३ ॥
प्रश्नोत्तरैकषष्टिशतकाव्यम