SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मानं कुत्र? क्व भाण्डे व नयति लघु धामाप्तिराहानुकम्पा; शैत्यं कुत्र ? व लोको न सजति? तुरगः क्वार्च्यते? क्व व्यवस्था ?। श्रीब्रूते मुत् क्व मे स्यात्? क्व च कमलतुला? मूलतः क्वाऽशुचित्वं ?, कस्मै सर्वोऽपि लोकः स्पृहयति? पथिकैः सत्पथे किं प्रचक्रे ?॥१२४॥ ॥मेनेमदतोक्षरनयशकारातये॥ मञ्जरीसनाथजातिः॥ किं चक्रे रेणुभिः खे व सति ? निगदति स्त्री रतिः क्वानुरक्ता?, क्वाऽक्रोधः ? क्रुरताऽत्र क्व?चवदति जिनः कोऽपिलक्ष्मीश्च भूश्च। विष्णुस्थाण्वोः प्रिये के ? परिरमति मनः कुत्र नित्यं मुनीनां?, किंचक्रे ज्ञानदृष्टया त्रिजगदपि मयेत्याह कश्चिजिनेन्द्रः ?॥१२५॥ ॥ मेनेमदतोक्षरनयशकारातये॥ विपर्यस्तमञ्जरीसनाथजातिः॥ किमकृत कुतोऽचलक्रमविक्रमनृप आह सुभगतामानी कश्चिदलं स्वम्। कस्मै स्त्रीणां? किं चक्रे का, कस्मात्कस्य? वद मत्कुण! मम त्वम्॥ १२६॥ ॥ मेनेमदतोक्षरनयशकारातेये॥ गतागतः॥ त्रिभिर्विशेषकम्॥ व्याख्या:- त्रयाणामपि क्रमेण व्याख्या। पूर्वमनुलोममञ्जरी यथा- मानं कुत्र? मेये द्रव्ये। ____ व भाण्डे कस्मिन् वस्तुनि क नयति सति लघु शीघ्रं धामाप्तिः गृहप्राप्तिः स्यात्? उत्तरम्- नेये नेतव्ये भाण्डे मये उष्ट्र प्रापयति सति शीधं गृहे प्राप्तिः स्यादित्यर्थः। ___अनुकम्पा आह वक्ति- शैत्यं शीतलत्वं कुत्र? हे दये! अनुकम्पे! तोये जले। १. 'धाप्तिहारानुकम्पा' इति २। कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy