Book Title: Prashna Vyakaran Sutra
Author(s): Amarmuni
Publisher: Sanmati Gyanpith

View full book text
Previous | Next

Page 871
________________ ८२६ श्री प्रश्नव्याकरण सूत्र अन्येषु चैवमादिकेषु शब्देषु मनोज्ञ भद्रकेषु न तेषु श्रमणेन सक्तव्यं, न रक्तव्यं, न गद्धितव्यं, न हसितव्यं, न मोहितव्यं, न विनिघातमापत्तव्यं, न लोब्धव्यं, न तोष्टव्यं न स्मृति च मतिं च तत्र कुर्यात् । पुनरपि श्रोत्र न्द्रियेण श्रुत्वा शब्दान् अमनोज्ञपापकान्, के ते ? आक्रोश- परुष-खिसनाऽवमानन तर्जन-निर्भर्त्सनदीप्तवचन - त्रासनोत्कूजित रुदित रटित- क्रन्दित निघुष्ट-रसित - करुणविलपितानि अन्येषु चैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं, न हीलितव्यं, न निन्दितव्यं, न खिसितव्यं, न छेत्तव्यं, न भेत्तव्यं, न हन्तव्यं, न जुगुप्सावृत्तिका लभ्योत्पादयितुम् । एवं श्रोत्रन्द्रिय-भावनाभावितो भवत्यन्तरात्मा मनोज्ञामनोज्ञ शुभाशुभ-रागद्वेष - प्रणिहितात्मा साधुर्मनोवचनका गुप्तः संवृतः प्रणिहितेन्द्रियश्चरेद् धर्मम् ॥ १ ॥ · - द्वितीयं चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि मनोज्ञानि, भद्रकाणि सचित्ताचित्तमिश्रकाणि काष्ठे च पुस्ते च चित्रकर्मणि लेप्य-कर्मणि शैले च दन्तकर्मणि च पंचभिर्वर्णैरनेकसंस्थान -संस्थितानि ग्रन्थिमवेष्टिमपूरिमसंघातिमानि च माल्यानि बहुविधानि चाधिकं नयनमनःसुखकराणि वनषण्डान् पर्वतांश्च ग्रामाकरनगराणि च क्षुद्रिका पुष्करिणी-वापी दीर्घिका - गुरु जालिका- सरःसरः पंक्तिका - सागर बिल पंक्तिका खातिका-नदी-सरस्तडागवप्रान् फुल्लोत्पल-. पद्मपरिमंडिताभिरामान् अनेकशकुनिगणमिथुनविरचितान् वरमंडपविविधभवन तोरण- चैत्य- देव कुल सभा-प्रपाऽवसथ- सुकृतशयनासन-शिबिका - रथ- शकट- यान-युग्य- स्यन्दन - नरनारीगणान् च सौम्यप्रतिरूपदर्शनीयान् अलंकृत - विभूषितान् पूर्वकृततपःप्रभाव सौभाग्यसंप्रयुक्तान् नट-नर्तक- जल्लमल्ल- मौष्टिक - बिडम्बक- कथक - प्लवक लासकाख्यायकलंख मंखतूणइल्लतुम्बवीणिकतालाचरप्रकरणानि च बहूनि सुकरणानि अन्येषु चैवमादिकेषु रूपेषु मनोज्ञ भद्रकेषु न तेषु श्रमणेन सक्तव्यं, न रक्तव्यं यावत् न स्मृतिं च मति च तत्र कुर्यात् । पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपापकानि, कानि तानि ? गण्डि - कुष्ठिक- कुणि उदरि- कण्डूतिमत्-पदवत् कुब्ज पंगुल - वामना कचक्ष विनिहतसपिशाचक (सर्पिशल्यक) व्याधिरोगपीडितं, विकृतानि च मृतककलेवराणि सकृमिकुथितं च द्रव्यराशिम्, अन्येषु चैवमादिकेषु न तेषु श्रमणेन रोषितव्यं यावन्न जुगुप्सावृत्तिकाऽपि लभ्योत्पादयितुम् एवं चक्ष रिन्द्रिय भावनाभावितो भवत्यन्तरात्मा यावच्चरेद् धर्मम् ॥ २ ॥ ७ -

Loading...

Page Navigation
1 ... 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940