________________
८२६
श्री प्रश्नव्याकरण सूत्र
अन्येषु चैवमादिकेषु शब्देषु मनोज्ञ भद्रकेषु न तेषु श्रमणेन सक्तव्यं, न रक्तव्यं, न गद्धितव्यं, न हसितव्यं, न मोहितव्यं, न विनिघातमापत्तव्यं, न लोब्धव्यं, न तोष्टव्यं न स्मृति च मतिं च तत्र कुर्यात् । पुनरपि श्रोत्र न्द्रियेण श्रुत्वा शब्दान् अमनोज्ञपापकान्, के ते ? आक्रोश- परुष-खिसनाऽवमानन तर्जन-निर्भर्त्सनदीप्तवचन - त्रासनोत्कूजित रुदित रटित- क्रन्दित निघुष्ट-रसित - करुणविलपितानि अन्येषु चैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं, न हीलितव्यं, न निन्दितव्यं, न खिसितव्यं, न छेत्तव्यं, न भेत्तव्यं, न हन्तव्यं, न जुगुप्सावृत्तिका लभ्योत्पादयितुम् । एवं श्रोत्रन्द्रिय-भावनाभावितो भवत्यन्तरात्मा मनोज्ञामनोज्ञ शुभाशुभ-रागद्वेष - प्रणिहितात्मा साधुर्मनोवचनका गुप्तः संवृतः प्रणिहितेन्द्रियश्चरेद् धर्मम् ॥ १ ॥
·
-
द्वितीयं चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि मनोज्ञानि, भद्रकाणि सचित्ताचित्तमिश्रकाणि काष्ठे च पुस्ते च चित्रकर्मणि लेप्य-कर्मणि शैले च दन्तकर्मणि च पंचभिर्वर्णैरनेकसंस्थान -संस्थितानि ग्रन्थिमवेष्टिमपूरिमसंघातिमानि च माल्यानि बहुविधानि चाधिकं नयनमनःसुखकराणि वनषण्डान् पर्वतांश्च ग्रामाकरनगराणि च क्षुद्रिका पुष्करिणी-वापी दीर्घिका - गुरु जालिका- सरःसरः पंक्तिका - सागर बिल पंक्तिका खातिका-नदी-सरस्तडागवप्रान् फुल्लोत्पल-. पद्मपरिमंडिताभिरामान् अनेकशकुनिगणमिथुनविरचितान् वरमंडपविविधभवन तोरण- चैत्य- देव कुल सभा-प्रपाऽवसथ- सुकृतशयनासन-शिबिका - रथ- शकट- यान-युग्य- स्यन्दन - नरनारीगणान् च सौम्यप्रतिरूपदर्शनीयान् अलंकृत - विभूषितान् पूर्वकृततपःप्रभाव सौभाग्यसंप्रयुक्तान् नट-नर्तक- जल्लमल्ल- मौष्टिक - बिडम्बक- कथक - प्लवक लासकाख्यायकलंख मंखतूणइल्लतुम्बवीणिकतालाचरप्रकरणानि च बहूनि सुकरणानि अन्येषु चैवमादिकेषु रूपेषु मनोज्ञ भद्रकेषु न तेषु श्रमणेन सक्तव्यं, न रक्तव्यं यावत् न स्मृतिं च मति च तत्र कुर्यात् । पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपापकानि, कानि तानि ? गण्डि - कुष्ठिक- कुणि उदरि- कण्डूतिमत्-पदवत् कुब्ज पंगुल - वामना
कचक्ष विनिहतसपिशाचक (सर्पिशल्यक) व्याधिरोगपीडितं, विकृतानि च मृतककलेवराणि सकृमिकुथितं च द्रव्यराशिम्, अन्येषु चैवमादिकेषु न तेषु श्रमणेन रोषितव्यं यावन्न जुगुप्सावृत्तिकाऽपि लभ्योत्पादयितुम् एवं चक्ष रिन्द्रिय भावनाभावितो भवत्यन्तरात्मा यावच्चरेद् धर्मम् ॥ २ ॥
७
-