________________
दसवां अध्ययन : पंचम अपरिग्रह - संवर
तृतीयं घ्राणेन्द्रियेणाऽऽघ्राय गन्धान् मनोज्ञ - भद्रकान्, के ते ? जलजस्थलज - सरस-पुष्प-फल- पानभोजन कुष्ठ- तगर - पत्र- त्वग्दमनक- मरुदैलारसपक्वमांसी गोशोषं सरसचन्दन कर्पू रलवंगागुरुकु कुमकक्कोलोशीरश्वेतचन्दन - सुगन्धसारंगयुक्तिवरधूपवासान् ऋतुजपंडिम- निहरिमगन्धेष अन्येष चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न तेषु श्रमणेन सक्तव्यं यावत् न स्मृति च मतिं च तत्र कुर्यात् । पुनरपि घ्राणेन्द्रियेणाऽऽघ्राय गन्धान् अमनोज्ञपापका के ? मृताहि-मृताश्व मृतहस्ति-मृतगो वृकशुनकशृगालमनुजमार्जारसिंह- द्वीपिक-मृत कुथित विनष्टकृमिवद बहुदुरभिगन्धेषु अन्येषु चैवमादिकेषु गन्धेषु, अमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं, न हीलितव्यं यावत् प्रणिहितपंचेन्द्रियश्चरेद धर्मम् ॥ ३ ॥
-
८२७
चतुर्थ जिह्वन्द्रियेणास्वाद्य रसांस्तु मनोज्ञभद्रकान्, के ते ? अवगाहिमविविधपान - भोजन गुडकृत- खंडकृत तैलघृत कृतभक्ष्येषु बहुविधेषु लवण'रससंयुक्तषु मधुमांस बहुप्रकारमज्जिका निष्ठानक- दालिकाम्ल - संन्धाम्लदुग्धदधिसरक मद्यवरवारुणी सीधु कापिशायनशाकाष्टदशप्रबहुकारेषु भोजनेषु च मनोज्ञवर्णगन्धरसस्पर्श बहुद्रव्यसंभृतेषु रसेषु अन्येषु चैवमादिकेषु रसेषु मनोज्ञभद्रकेष न तेषु श्रमणेन सक्तव्यं यावत् न स्मृति च मति च तत्र कुर्यात् । पुनरपि जिह्वन्द्रियेणास्वाद्य रसान् अमनोज्ञपापकान्, के ते ? अरसविरस - शीत रुक्षनिर्याप्यपानभोजनानि दोषान्न व्यापन्न - कुथित - पूतिकामनोज्ञविनष्टप्रसूत बहुदुरभिगन्धिकानि तिक्तकटुककषायाम्लरसलिन्द्रनीरसानि अन्येषु चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं यावत् चरेद् धर्मम् ॥ ४ ॥
-
पंचमं स्पर्शेन्द्रियेण स्पृष्ट्वा मनोज्ञभद्रकान्, के ते ? दक-मंडप-हीरश्वेतचन्दन - शीतलविमलजल विविध कुसुमस्रस्तरौशीर मौक्तिक - मृणालचन्द्रिका - पेहूण ( मयूरांग) उत्क्षेपकतालवृन्तवीजन कजनित सुखशीतलांश्च पवनान् ग्रीष्मकाले सुखस्पृशानि च बहूनि शयनान्यासनानि च प्रावरणगुणांश्च शिशिरकाले अंगारप्रतापनाश्चातपस्निग्धमृदुशीतोष्णलघुकाश्च ऋतु सुखस्पर्शा अंगसुखनिर्वृतिकरास्तेऽन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न तेषु श्रमणेन सक्तव्यं, न रक्तव्यं, न गद्धितव्यं न मोहितव्यं, न विनिर्धातं आपत्तव्यं, न लोब्धव्यं नाध्यात्मोपपत्तव्यं, न तोष्टव्यं, न
७
S