________________
८२८
श्री प्रश्नव्याकरण सूत्र हसितव्यं, न स्मृति च मतिं च तत्र कुर्यात् । पुनरपि स्पर्शनेन्द्रियेण स्पृष्ट्वा स्पर्शान् अमनोज्ञपापकान्, के ते ? अनेकवघबन्धताड़नांकनाऽतिभारारोपणाऽङ्गभंजननखसूचीप्रवेश - गात्रप्रक्षरण - लाक्षारस-क्षार-तैल-कलकल. त्रपुषसोसक-काललोह - सेचन - हडीबंधन - रज्जुनिगडशृङ्खला(संकलना) - हस्तांडुक - कुम्भीपाकदहन - सिंहपुच्छनोबन्धन - शूलभेद- गजचरणमलनकरचरणकर्णनासोष्ठशीर्षच्छेदन-जिह्वाकर्षण-वृषणनयन-हृदयान्त्रदन्तभंजन - योक्त्रलताकषप्रहारपादपाणिजानुप्रस्तरनिपातपीड़नकपिकच्छ्वग्नि वृश्चिकदंशवातातप-दंशमशकनिपातान् दुष्टनिषद्या-दुनिषोधिका - कर्कशगुरुशीतोष्णरुक्षेषु बहुविधेष्वन्येषु चैवमादिकेषु स्पर्शेषु अमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं, न होलितव्यं, न निन्दितव्यं, न गहितव्यं, न खिसितव्यं, न छेत्तव्यं, न भेत्तव्यं न हन्तव्यं, न जुगुप्सावृत्तिका च लभ्योत्पादयितुम् ।
एवं स्पर्शनेन्द्रियभावनाभावितो भवत्यन्तरात्मा मनोज्ञामनोज्ञशुभाशुभ-रागद्वषप्रणिहितात्मा साधुर्मनोवचनकायगुप्तः संवृतः प्रणिहितेन्द्रियश्चरेद् धर्मम् ॥५॥
एवमिदं संवरस्य द्वारं सम्यक् संवृतं भवति सुप्रणिहितमेभिः पंचभिरपि कारणैर्मनोवचः कायपरिरक्षितनित्यमामरणान्तं चैष योगो नेतव्यो धृतिमता मतिमताऽनाश्रवोऽकलुषोऽच्छिद्रोऽपरिस्रावी असंक्लिष्ट: शुद्धः सर्वजिनानुज्ञातः। .
एवं पंचमं संवरद्वारं स्पृष्टं पालितं शोधितं तीरितं कीर्तितमनुपालितमाशयाऽऽराधितं भवति। एवं ज्ञातमुनिना भगवता प्रज्ञापितं, प्ररूपित, प्रसिद्ध सिद्धं सिद्धवरशासनमिदमाख्यातं सूदेशितं प्रशस्तं पंचमं संवरद्वारं समाप्तमिति ब्रवीमि ।
एतानि व्रतानि पंचापि सुव्रत - महाव्रतानि हेतुशत - विविक्तपुष्कलानि कथितानि अर्हच्छासने पंच समासेन संवरा विस्तरेण तु पंचविशतिः समितसहितसंवृतः सदा यतनघटनसुविशुद्धदर्शनः एताननुचर्य संयतश्चरमशरीरधरो भविष्यतीति ॥ (सू० २६)
पदान्वयार्थ तस्स) उस पूर्वोक्त (चरिमस्स वयस्स) अन्तिम परिग्रहत्यागरूप व्रत-अपरिग्रहसंवरद्वार की (पंच भावणाओ) पांच भावनाएँ. (परिग्गहवेरमणपरिरक्खणट्टयाए) परिग्रहत्यागरूप अपरिग्रहमहावत की सुरक्षा के लिए (होंति) हैं। (पढम) प्रथम भावनावस्तु इस प्रकार है-(सोइंदिएण) कर्णेन्द्रिय से (मणुन्नभद्दगाई)