Book Title: Prashna Vyakaran Sutra
Author(s): Amarmuni
Publisher: Sanmati Gyanpith

View full book text
Previous | Next

Page 872
________________ दसवां अध्ययन : पंचम अपरिग्रह - संवर तृतीयं घ्राणेन्द्रियेणाऽऽघ्राय गन्धान् मनोज्ञ - भद्रकान्, के ते ? जलजस्थलज - सरस-पुष्प-फल- पानभोजन कुष्ठ- तगर - पत्र- त्वग्दमनक- मरुदैलारसपक्वमांसी गोशोषं सरसचन्दन कर्पू रलवंगागुरुकु कुमकक्कोलोशीरश्वेतचन्दन - सुगन्धसारंगयुक्तिवरधूपवासान् ऋतुजपंडिम- निहरिमगन्धेष अन्येष चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न तेषु श्रमणेन सक्तव्यं यावत् न स्मृति च मतिं च तत्र कुर्यात् । पुनरपि घ्राणेन्द्रियेणाऽऽघ्राय गन्धान् अमनोज्ञपापका के ? मृताहि-मृताश्व मृतहस्ति-मृतगो वृकशुनकशृगालमनुजमार्जारसिंह- द्वीपिक-मृत कुथित विनष्टकृमिवद बहुदुरभिगन्धेषु अन्येषु चैवमादिकेषु गन्धेषु, अमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं, न हीलितव्यं यावत् प्रणिहितपंचेन्द्रियश्चरेद धर्मम् ॥ ३ ॥ - ८२७ चतुर्थ जिह्वन्द्रियेणास्वाद्य रसांस्तु मनोज्ञभद्रकान्, के ते ? अवगाहिमविविधपान - भोजन गुडकृत- खंडकृत तैलघृत कृतभक्ष्येषु बहुविधेषु लवण'रससंयुक्तषु मधुमांस बहुप्रकारमज्जिका निष्ठानक- दालिकाम्ल - संन्धाम्लदुग्धदधिसरक मद्यवरवारुणी सीधु कापिशायनशाकाष्टदशप्रबहुकारेषु भोजनेषु च मनोज्ञवर्णगन्धरसस्पर्श बहुद्रव्यसंभृतेषु रसेषु अन्येषु चैवमादिकेषु रसेषु मनोज्ञभद्रकेष न तेषु श्रमणेन सक्तव्यं यावत् न स्मृति च मति च तत्र कुर्यात् । पुनरपि जिह्वन्द्रियेणास्वाद्य रसान् अमनोज्ञपापकान्, के ते ? अरसविरस - शीत रुक्षनिर्याप्यपानभोजनानि दोषान्न व्यापन्न - कुथित - पूतिकामनोज्ञविनष्टप्रसूत बहुदुरभिगन्धिकानि तिक्तकटुककषायाम्लरसलिन्द्रनीरसानि अन्येषु चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यं यावत् चरेद् धर्मम् ॥ ४ ॥ - पंचमं स्पर्शेन्द्रियेण स्पृष्ट्वा मनोज्ञभद्रकान्, के ते ? दक-मंडप-हीरश्वेतचन्दन - शीतलविमलजल विविध कुसुमस्रस्तरौशीर मौक्तिक - मृणालचन्द्रिका - पेहूण ( मयूरांग) उत्क्षेपकतालवृन्तवीजन कजनित सुखशीतलांश्च पवनान् ग्रीष्मकाले सुखस्पृशानि च बहूनि शयनान्यासनानि च प्रावरणगुणांश्च शिशिरकाले अंगारप्रतापनाश्चातपस्निग्धमृदुशीतोष्णलघुकाश्च ऋतु सुखस्पर्शा अंगसुखनिर्वृतिकरास्तेऽन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न तेषु श्रमणेन सक्तव्यं, न रक्तव्यं, न गद्धितव्यं न मोहितव्यं, न विनिर्धातं आपत्तव्यं, न लोब्धव्यं नाध्यात्मोपपत्तव्यं, न तोष्टव्यं, न ७ S

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940