Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 148
________________ मयवक्खाणपव्वं -७७/१-२४ एयन्तरे सुमाली, विहीसणो मालवन्तनामो य । रयणासवमाईया, घणसोयसमोत्थयसरीरा ॥११॥ दट्ठण ते विसण्णे, जंपइ पउमो सुणेह मह वयणं । सोगस्स मा हु सङ्गं, देह मणं निययकरणिज्जे ॥१२॥ इह सयलजीवलोए, जं जेण समज्जियं निययकम्मं । तं तेण पावियव्वं, सुहं च दुक्खं च जीवेणं ॥१३॥ जाएण य मरियव्वं, अवस्स जीवेण तिहुयणे सयले । तं एव जाणमाणो, संसारठिई मुयह सोगं ॥१४॥ खणभङ्गरं सरीरं, कुसुमसमं जोव्वणं चलं जीयं । गयकण्णसमा लच्छी, सुमिणसमा बन्धवसिणेहा ॥१५॥ मोत्तूण इमं सोगं, सव्वे तुम्हे वि कुणह अप्पहियं । उज्जमह जिणवराणं, धम्मे सव्वाए सत्तीए ॥१६॥ महुरक्खरेहि एवं, संथाविय रहुवईण ते सव्वे । निययघराइं उवगया, सुमणा ते बन्धुकरणिज्जे ॥१७॥ ताव विहीसणधरिणी, जुवइसहस्ससहिया महादेवी । संपत्ता य वियड्डा, पउमसयासं सपरिवारा ॥१८॥ पायप्पडणोवगया, पउमं विन्नवइ लक्खणेण समं । अहं अणुग्गहत्थं, कुणह घरे चलणपरिसङ्गं ॥१९॥ जाव च्चिय एस कहा, वट्टइ एत्तो विहीसणो ताव । भणइ य पउम! घरं मे, वच्च तुमं कीरउ पसाओ ॥२०॥ एव भणिओ पयट्टो, गयवरखन्धट्ठिओ सह पियाए । सयलपरिवारसहिओ, संघट्टद्वेन्तजणनिवहो ॥२१॥ गय-तुरय-रहवरेहि, जाणविमाणेहि खेयरारूढा । वच्चन्ति रायमग्गे, तूररवुच्छलियकयचिन्धा ॥२२॥ पत्ता विहीसणघरं, मन्दरसिहरोवमं जगजगेन्तं । वरजुवइगीयवाइय-निच्चंकयमङ्गलाडोवं ॥२३॥ अह सो विहीसणेणं, रयणग्घाईकओवयारो य । सीयाए लक्खणेण य, सहिओ पविसरइ भवणं तं ॥२४॥ एतदन्तरे सुमाली बिभीषणो मालवान्नाम च । रत्नश्रवसादयः घनशोकसमवस्तृतशरीराः ॥११॥ दृष्ट्वा तान् विषण्णाञ्जल्पति पद्मः श्रुणुत मम वचनम् । शोकस्य मा खलु सङ्गं ददत मनो निजकरणीये ॥१२॥ इह सकलजीवलोके यद्येन समर्जितं निजकर्म । तत्तेन प्राप्तव्यं सुखं च दुःखं च जीवेन ॥१३॥ जातेन च मर्तव्यमवश्यं जीवेन त्रिभुवने सकले । तदेव जानन्मानः संसारस्थितिं मुञ्च शोकम् ॥१४॥ क्षणभङ्गुरं शरीरं कुसुमसमं यौवनं चलं जीवितम् । गजकर्णसमा लक्ष्मीः स्वप्नसमा बन्धुस्नेहाः ॥१५॥ मुक्त्वेदं शोकं सर्वे यूयमपि कुरतात्महितम् । उद्यच्छत जिनवराणां धर्मे सर्वया शक्त्या ॥१६।। मधुराक्षरैरेवं संस्थाप्य रघुपतिना तान् सर्वान् । निजगृहाणि उपागताः सुमनास्ते बन्धुकरणीये ॥१७॥ तावद्बिभीषणगृहिणी युवतिसहस्रसहिता महादेवी । संप्राप्ता च विदग्धा पद्मसकाशं सपरिवारा ॥१८॥ पादपतनोपागता पद्म विज्ञापयति लक्ष्मणेन समम् । अस्माकमनुग्रहार्थं कुरुत गृहे चरणपरिसङ्गम् ॥१९॥ यावदेवैषा कथा वर्तते इतो बिभीषणस्तावत् । भणति च पद्म ! गृहं मम व्रज, त्वं क्रियतां प्रसादः ॥२०॥ एवं भणितः प्रवृत्तो गजवरस्कन्धस्थितः सह प्रियया । सकल परिवार सहितः संघोत्तिष्ठज्जननिवहः ॥२१॥ गज-तुरग-रथवरैर्यानविमानैः खेचरारुढाः । व्रजन्ति राजमार्गे तूर्यरवोच्छलितकृतचिह्नाः ॥२२॥ प्राप्ता बिभीषणगृहं मन्दरशिखरोपमं चकासन्तम् । वरयुवतिगीतवादितनित्यकृतमङ्गलाटोपम् ।।२३।। अथ स बिभीषणेन रत्नाादिकृतोपचारश्च । सीतया लक्ष्मणेन च सहितः प्रविशति भवनं तत् ॥२४॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202