Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५२२
पउमचरियं परिणेइ लच्छिनिलओ, परमविभूईए ताओ कन्नाओ । सव्वङ्गसुन्दरीओ, सुरवहुसमसरिसरुवाओ ॥५२॥ परिणेइ पउमणाहो, कन्नाओ जाओ पुव्वदिन्नाओ। नवजोव्वणुज्जलाओ, रइगुणसारं वहन्तीओ ॥५३॥ एवं परमविभूई, हलहर-नारायणा समणुपत्ता । लङ्कापुरीए रज्जं, कुणन्ति विज्जाहरसमग्गा ॥५४॥ छव्वरिसाणि कमेण य, गयाणि तत्थेव पवरनयरीए । सोमित्ति-हलहराणं, विज्जाहररिद्धिजुत्ताणं ॥५५॥ एयं तु कहन्तरए, पुणरवि निसुणेहि अन्नसंबन्धं । इन्दइमुणिमाईणं, सेणिय ! लद्धीगुणहराणं ॥५६॥ झाणाणलेण सव्वं, दहिऊणं कम्मकयवरं धीरो । इन्दइमुणी महप्पा, केवलनाणी तओ जाओ ॥५७॥ अह मेहवाहणो वि य, धीरो अन्नोन्नकरणजोगेसु । जिणिऊण कम्ममल्लं, गेण्हइ सो केवलिपडायं ॥५८॥ दंसण-नाण-चरित्ते, सुद्धो तव-चरण-करणविणिओगे । केवलनाणाइसयं, संपत्तो भाणुकण्णो वि ॥५९॥ ठाणेसु जेसु एए, सिवमयलमणुत्तरं सुहं पत्ता । दीसन्ति ताणि सेणिय !, ते पुण साहू न दीसन्ति ।६०॥ विज्झत्थलीसु जेण उ, इन्दइ तह मेहवाहणो सिद्धो । तित्थं मेहरवं तं, विक्खायं तिहयुणे जायं ॥६१॥ समणो वि जम्बुमाली, कालं काऊण तो निमित्तम्मि । अहमिन्दत्तं पत्तो, सुचरियकम्माणुभावेणं ॥६२॥ तत्तो चुओ य सन्तो, होहइ एरावए महासमणो, केवलसमाहिजुत्तो, सिद्धि पाविहिइ धुयकम्मो ॥६३॥ अह नम्मयाए तीरम्मि निव्वुओ कुम्भयण्णमुणिवसभो । पीढरखंडं तिभण्णइ, तं तित्थं देसविक्खायं ॥६४॥ मारीचि तवच्चरणं काऊणं कप्पवासिओ जाओ । जो जारिसम्मि ववसइ, फलं पि सो तारिसं लभइ ॥६५॥
परिणयति लक्ष्मीनिलयः परमविभूत्या ताः कन्याः । सर्वाङ्गसुन्दर्यः सुरवधुसमसदृशरुपाः ॥५२॥ परिणयति पद्मनाभः कन्या याः पूर्वदत्ताः । नवयौवनोज्वला रतिगुणसारं वहन्त्यः ॥५३॥ एवं परमविभूतिं हलधर-नारायणौ समनुप्राप्तौ । लड्कापूर्या राज्यं कुर्वतो विद्याधरसमग्रौ ॥५४॥ षड्वर्षाणि क्रमेण च गतानि तत्रैव प्रवरनगर्याम् । सौमित्रि-हलधरयो विद्याधरद्धियुक्तयोः ॥५५॥ एतत्तु कथान्तरे पुनरपि निश्रुणुतान्यसम्बन्धम् । इन्द्रजिन्मुन्यादीनां श्रेणिक ! लब्धिगुणधराणाम् ॥५६॥ ध्यानानलेन सर्वं दग्ध्वा कर्मकचवरं धीरः । इन्द्रजिन्मुनि महात्मा केवलज्ञानी ततो जातः ॥५७॥ अथ मेघवाहनोऽपि च धीरोऽन्योन्यकरणयोगैः । जित्वा कर्ममलं गृह्णाति स केवलिपताकाम् ॥५८॥ दर्शन-ज्ञान-चारित्रेण शुद्धस्तपश्चरण-करणविनियोगेन । केवलज्ञानातिशयं संप्राप्तो भानुकर्णोऽपि ॥५९॥ स्थानेषु येष्वेते शिवमचलमनुत्तरं सुखं प्राप्ताः । दृश्यन्ते तानि श्रेणिक ! ते पुनः साधवो न दृश्यन्ते ॥६०|| विन्ध्यस्थलिषु येन त्विन्द्रजित्तथा मेघवाहनः सिद्धः । तीर्थं मेघरवं तद्विख्यातं त्रिभुवने जातम् ॥६१॥ श्रमणोऽपि जम्बूमाली कालं कृत्वा तदा निमित्ते । अहमिन्द्रत्वं प्राप्तः सुचरितकर्मानुभावेन ॥६२॥ ततश्च्युतश्च सन् भविष्यत्यैरावते महाश्रमणः । केवलसमाधियुक्तः सिद्धि प्राप्स्यति धुतकर्मा ॥६३॥ अथ नर्मदायास्तीरे निवृत्तः कुम्भकर्ण मुनिवृषभः। पीठरखण्डमिति भण्यते तत्तीर्थ देशविख्यातम् ॥६४॥ मारीची तपश्चरणं कृत्वा कल्पवासी जातः । यो यादृशे व्यवस्यति फलमपि स तादृशं लभते ॥६५।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202