________________
मयवक्खाणपव्वं -७७/१-२४ एयन्तरे सुमाली, विहीसणो मालवन्तनामो य । रयणासवमाईया, घणसोयसमोत्थयसरीरा ॥११॥ दट्ठण ते विसण्णे, जंपइ पउमो सुणेह मह वयणं । सोगस्स मा हु सङ्गं, देह मणं निययकरणिज्जे ॥१२॥ इह सयलजीवलोए, जं जेण समज्जियं निययकम्मं । तं तेण पावियव्वं, सुहं च दुक्खं च जीवेणं ॥१३॥ जाएण य मरियव्वं, अवस्स जीवेण तिहुयणे सयले । तं एव जाणमाणो, संसारठिई मुयह सोगं ॥१४॥ खणभङ्गरं सरीरं, कुसुमसमं जोव्वणं चलं जीयं । गयकण्णसमा लच्छी, सुमिणसमा बन्धवसिणेहा ॥१५॥ मोत्तूण इमं सोगं, सव्वे तुम्हे वि कुणह अप्पहियं । उज्जमह जिणवराणं, धम्मे सव्वाए सत्तीए ॥१६॥ महुरक्खरेहि एवं, संथाविय रहुवईण ते सव्वे । निययघराइं उवगया, सुमणा ते बन्धुकरणिज्जे ॥१७॥ ताव विहीसणधरिणी, जुवइसहस्ससहिया महादेवी । संपत्ता य वियड्डा, पउमसयासं सपरिवारा ॥१८॥ पायप्पडणोवगया, पउमं विन्नवइ लक्खणेण समं । अहं अणुग्गहत्थं, कुणह घरे चलणपरिसङ्गं ॥१९॥ जाव च्चिय एस कहा, वट्टइ एत्तो विहीसणो ताव । भणइ य पउम! घरं मे, वच्च तुमं कीरउ पसाओ ॥२०॥ एव भणिओ पयट्टो, गयवरखन्धट्ठिओ सह पियाए । सयलपरिवारसहिओ, संघट्टद्वेन्तजणनिवहो ॥२१॥ गय-तुरय-रहवरेहि, जाणविमाणेहि खेयरारूढा । वच्चन्ति रायमग्गे, तूररवुच्छलियकयचिन्धा ॥२२॥ पत्ता विहीसणघरं, मन्दरसिहरोवमं जगजगेन्तं । वरजुवइगीयवाइय-निच्चंकयमङ्गलाडोवं ॥२३॥ अह सो विहीसणेणं, रयणग्घाईकओवयारो य । सीयाए लक्खणेण य, सहिओ पविसरइ भवणं तं ॥२४॥
एतदन्तरे सुमाली बिभीषणो मालवान्नाम च । रत्नश्रवसादयः घनशोकसमवस्तृतशरीराः ॥११॥ दृष्ट्वा तान् विषण्णाञ्जल्पति पद्मः श्रुणुत मम वचनम् । शोकस्य मा खलु सङ्गं ददत मनो निजकरणीये ॥१२॥ इह सकलजीवलोके यद्येन समर्जितं निजकर्म । तत्तेन प्राप्तव्यं सुखं च दुःखं च जीवेन ॥१३॥ जातेन च मर्तव्यमवश्यं जीवेन त्रिभुवने सकले । तदेव जानन्मानः संसारस्थितिं मुञ्च शोकम् ॥१४॥ क्षणभङ्गुरं शरीरं कुसुमसमं यौवनं चलं जीवितम् । गजकर्णसमा लक्ष्मीः स्वप्नसमा बन्धुस्नेहाः ॥१५॥ मुक्त्वेदं शोकं सर्वे यूयमपि कुरतात्महितम् । उद्यच्छत जिनवराणां धर्मे सर्वया शक्त्या ॥१६।। मधुराक्षरैरेवं संस्थाप्य रघुपतिना तान् सर्वान् । निजगृहाणि उपागताः सुमनास्ते बन्धुकरणीये ॥१७॥ तावद्बिभीषणगृहिणी युवतिसहस्रसहिता महादेवी । संप्राप्ता च विदग्धा पद्मसकाशं सपरिवारा ॥१८॥ पादपतनोपागता पद्म विज्ञापयति लक्ष्मणेन समम् । अस्माकमनुग्रहार्थं कुरुत गृहे चरणपरिसङ्गम् ॥१९॥ यावदेवैषा कथा वर्तते इतो बिभीषणस्तावत् । भणति च पद्म ! गृहं मम व्रज, त्वं क्रियतां प्रसादः ॥२०॥ एवं भणितः प्रवृत्तो गजवरस्कन्धस्थितः सह प्रियया । सकल परिवार सहितः संघोत्तिष्ठज्जननिवहः ॥२१॥ गज-तुरग-रथवरैर्यानविमानैः खेचरारुढाः । व्रजन्ति राजमार्गे तूर्यरवोच्छलितकृतचिह्नाः ॥२२॥ प्राप्ता बिभीषणगृहं मन्दरशिखरोपमं चकासन्तम् । वरयुवतिगीतवादितनित्यकृतमङ्गलाटोपम् ।।२३।। अथ स बिभीषणेन रत्नाादिकृतोपचारश्च । सीतया लक्ष्मणेन च सहितः प्रविशति भवनं तत् ॥२४॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org