Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 137
________________ ११४ न्यायमञ्ज [ एकादशम् क्रमप्रतिषेधे चोदनानुबन्धः समवायात्' इति सूत्रमनुसरन्तः । एतत्तु प्रतत्यमानमतिप्रसङ्गमावहति विविधमेव चोहं याज्ञिका अनुमन्यन्त इति । ___ अत्र वदन्ति, सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तो यथा स्मृतिकारैस्तत्र तर्कशब्द: 'यस्तर्केणानुसन्धत्ते' इति । तथा हि वैकृतं कर्म धर्मि, तत्समवेतार्थप्रकाशकमन्त्रप्रयोगनिर्वय॑मिति साध्यो धर्मः, कर्मत्वात् प्राकृतकर्मवत् । मन्त्रो वा तत्समवेतप्रकाशकः प्रयोज्यो मन्त्रत्वात् प्राकृतमन्त्रवदिति । प्राकृतेषु च कर्मसु तथा तथा व्याप्तिग्रहणात् सर्वोऽयमनुमानमार्ग एव । नखाः प्रोक्षणीयाः प्रयोगोपयोगितण्डुलनिवर्तकत्वादुलूखलमुसलवदिति । सामसु तु स्पष्टमेव वचनमस्ति 'रथन्तरमुत्तरयोर्गायति' इति तदभावेऽपि मन्त्रसंस्कार10 समानयोगक्षेमत्वमेव । अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्यायलभ्योऽर्थश्चोदनार्थ एवेति स्थापितम्, अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मा निर्वतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः, प्रमाणान्तर गोचरो वा धर्मः स्यात् । न्यायविशेषात्मकस्तूहो नानुमानादर्थान्तरं स्यात् । 15 कारणान्तरमित्याह, धर्मस्यार्थकृतत्वादिति । प्रकृतौ तावद् धर्माणामर्थकृतत्वमपूर्वप्रयुक्त त्वं प्रतिपादितम्, योऽसावपूर्वसाधनभूतोऽशो व्रीह्यादेः, तमुद्दिश्य धर्मप्रयोगः, प्रयोजनत्वात् । न स्वरूपोद्देशेनार्थत्वप्रसङ्गादिति । तस्य चांशस्य नीवारादिषु भावात् तेषु तद्धर्मप्राप्तिरिति तत्र नानर्थत्वम्, तदेवमुदाहरणपञ्चकेनोहपञ्चकमत्र सूत्रे दर्शितम् । भट्टेन तु दृष्टमुख्यार्थता-स्वार्थसमवेतार्थतादिभिः प्रयुक्ताः प्रकृतौ मन्त्रागताः कार्यातिदेशतो 20 विकारेष्वनिषिद्धोहकार्यापन्नेषु पञ्चधेति पञ्चविधत्वं यत् प्रतिपादितं तद् मन्त्रोहस्यैवेत्यलम् । तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमिति । उत्तराधरं रथन्तरं योनाविव विशिष्टस्तोत्रसम्पादकत्वेनोपकारि रथन्तरत्वात् प्रकृतरथन्तरवदिति । मन्त्रसंस्कारसमानयोगक्षेमत्वम्, यथा मन्त्रसंस्कारयोरनुमानं प्रदर्शितं तथात्रापोत्यर्थः । न च वितर्कासहायः शब्दस्तात्त्विकमर्थं प्रतिपादयत्यतो वितर्कमात्रस्य शब्द एवान्तरभावो वितर्कविशेषेऽस्तूहोऽनुमानमेवेत्याह न्यायविशेषात्मकस्त्विति । अतो नास्ति मीमांसकदृष्ट्या पृथगूहः कश्चिदिति अथ 'सूर्यायेति पदप्रक्षेप ऊहः' स कथमनुमानं

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240