Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 141
________________ ११८ न्यायमञ्ज [ एकादशम् यत, 10 वादलक्षणम् न्यायपरीक्षाद्वारकवस्तुविचारयोग्यास्तिस्रः कथा वादिनो भवन्ति वादो जल्पो वितण्डेति । तत्र वादस्तावदुच्यते, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ पक्षप्रतिपक्षी व्याख्यातौ, तयोः परिग्रहोऽभ्युपगमो नियमः । एको वक्ति नित्यः शब्दः अपरस्त्वनित्यः शब्दः इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः । एतच्च रूपं कथात्रयेऽपि साधारणमिति विशेषमाह प्रमाणतर्कसाधनोपालम्भ इति । प्रमाणैस्तर्केण च साधनं साधनोपालम्भश्चास्मिन् क्रियत इति प्रमाणतर्कसाधनोपालम्भः । न त्वीदृशी वितण्डा तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात् । तर्कस्य वादोपयोगित्वे शङ्कानिरासः ननु प्रत्यक्षादेः प्रमाणस्य परप्रतोत्यनुपायत्वान्न तेन वादे साधनोपालम्भौ शक्यक्रियौ। तर्कस्य तु प्रतीतिसाधनत्वमपि तावन्न सम्भवति सम्भावनाप्रत्ययस्वभावत्वात् किमुत परप्रत्यायनाङ्गतेति नतरां तस्य साधनोपालम्भहेतुत्वम् । सत्यमेवम्, इह तु न प्रमाणशब्देन प्रत्यक्षादेरनमानमपि तु प्रमाणमूला अवयवा उच्यन्ते । तैश्च सिद्ध्युपालम्भौ क्रियेते, एवं तर्कस्य तु स्वतः साधनोपालम्भकरणकौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येण तद्धेतोराशयशुद्धिप्रदर्शनार्थमुपादानम् । पञ्चावयवोपपन्नपदसार्थक्यम् यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात् पञ्चावयवोपपन्नग्रहणमतिरिच्यते । तत्र केचिदाचक्षते, प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छलजातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणाद् वादे सर्वात्मना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पञ्चावयवोपपन्न __ वादलक्षणे कतिपयनिग्रहस्थानेति । पञ्चावयवोपपन्नं न न्यूनावयवमधिकावयवं वेति व्यवच्छेदो लभ्यत एव ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240