Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 212
________________ १८९ आह्निकम् ] स्थाननिग्रहप्रकरणम् १८९ अपार्थकस्य लक्षणम् पौर्वापर्यादियोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ पूर्वापरासङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्यकं नाम निग्रहस्थानं भवति । तद्यथा 'दश दाडिमानि, षडपूपाः, कुण्डमजाजिनम्, पललखण्डः, अझैरुकमेतत् कुमार्याः, स्फैय्यकृतस्य पिता प्रतिशीनः' इति । अत्राह, असम्बद्धवाक्यमसम्बद्धं प्रकरणञ्च निग्रहस्थानान्तरं कस्मानोक्तम् ? एतेनैव गतार्थत्वादिति चेत्, यद्येवमनर्थकेनैव गतार्थत्वादपार्थकमपि पृथङ् न वक्तव्यम् । ___अत्रोच्यते, निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का उच्चार्यन्ते, अर्थान्तरेऽपि समन्वितपदार्थ व्यवस्थापितवाक्यार्थमप्रकृतं तूच्यते, 10 इह तु पदार्थसम्प्रत्ययेऽपि तदन्वयासम्भवेन वाक्यार्थानवसाय इति स्पष्टो भेदः । प्रकृतविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत्, उक्तमत्र सङ्क्षपविवक्षायां द्वे एव निग्रहस्थाने, असङ्कीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वम्, प्रकृतवस्तुसिद्धिस्तु द्वाविंशतावपि तुल्यैव । यत्तु असम्बद्धं वाक्यमसम्बद्धं प्रकरणञ्च पृथगुपसंख्येयमिति, तन्न, 15 असम्बद्धपदार्थेनैव तत्सङ्ग्रहात्, यदि त्वसम्बद्धवाक्यमसंबद्धप्रकरणञ्चावश्यं वक्तव्यं तदुक्तमेव भवदीयं शास्त्रम् । तथा हि वैभाषिकाणामस्ति बाह्यार्थः, स च प्रत्यक्षः । सौत्रान्तिकानां च सन्नप्यनुमेयः । योगाचाराणां साकारं ज्ञानमेव न बाह्यार्थः स च प्रत्यक्षः । माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम् । एवमितरेतरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् । आह च, 20 'दशदाडिमवाक्यस्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते । प्रकृते विवादास्पदीभूते वस्तुनि को विशेष इति । यथा निरर्थकस्य प्रकृता. साधकत्वं तथास्यापीत्यर्थः ।। माध्यमकानामाकारशून्यं स्वच्छज्ञानमात्रमेवेति । ज्ञाने स्थूलम्याकारस्य प्रतिभासनात् तस्य वृत्तिविकल्पादिना असत्त्वाज्ज्ञानस्यैव परमार्थत्वं नाकारस्येति । 25

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240