________________
१८९
आह्निकम् ] स्थाननिग्रहप्रकरणम्
१८९ अपार्थकस्य लक्षणम्
पौर्वापर्यादियोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ पूर्वापरासङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्यकं नाम निग्रहस्थानं भवति । तद्यथा 'दश दाडिमानि, षडपूपाः, कुण्डमजाजिनम्, पललखण्डः, अझैरुकमेतत् कुमार्याः, स्फैय्यकृतस्य पिता प्रतिशीनः' इति ।
अत्राह, असम्बद्धवाक्यमसम्बद्धं प्रकरणञ्च निग्रहस्थानान्तरं कस्मानोक्तम् ? एतेनैव गतार्थत्वादिति चेत्, यद्येवमनर्थकेनैव गतार्थत्वादपार्थकमपि पृथङ् न वक्तव्यम् । ___अत्रोच्यते, निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का उच्चार्यन्ते, अर्थान्तरेऽपि समन्वितपदार्थ व्यवस्थापितवाक्यार्थमप्रकृतं तूच्यते, 10 इह तु पदार्थसम्प्रत्ययेऽपि तदन्वयासम्भवेन वाक्यार्थानवसाय इति स्पष्टो भेदः । प्रकृतविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत्, उक्तमत्र सङ्क्षपविवक्षायां द्वे एव निग्रहस्थाने, असङ्कीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वम्, प्रकृतवस्तुसिद्धिस्तु द्वाविंशतावपि तुल्यैव ।
यत्तु असम्बद्धं वाक्यमसम्बद्धं प्रकरणञ्च पृथगुपसंख्येयमिति, तन्न, 15 असम्बद्धपदार्थेनैव तत्सङ्ग्रहात्, यदि त्वसम्बद्धवाक्यमसंबद्धप्रकरणञ्चावश्यं वक्तव्यं तदुक्तमेव भवदीयं शास्त्रम् । तथा हि वैभाषिकाणामस्ति बाह्यार्थः, स च प्रत्यक्षः । सौत्रान्तिकानां च सन्नप्यनुमेयः । योगाचाराणां साकारं ज्ञानमेव न बाह्यार्थः स च प्रत्यक्षः । माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम् । एवमितरेतरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् । आह च, 20 'दशदाडिमवाक्यस्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते ।
प्रकृते विवादास्पदीभूते वस्तुनि को विशेष इति । यथा निरर्थकस्य प्रकृता. साधकत्वं तथास्यापीत्यर्थः ।।
माध्यमकानामाकारशून्यं स्वच्छज्ञानमात्रमेवेति । ज्ञाने स्थूलम्याकारस्य प्रतिभासनात् तस्य वृत्तिविकल्पादिना असत्त्वाज्ज्ञानस्यैव परमार्थत्वं नाकारस्येति ।
25