________________
न्यायमञ्जल्
[ द्वादशम्
अप्राप्तकालस्य लक्षणम्
अवयवविपर्यासवचनमप्राप्तकालम् ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनं क्रममुल्लङ्घयावयवविपर्यासेन प्रयुज्यमानमप्राप्तकालं नाम निग्रहस्थानं भवति ।
अत्राह, न हि पदार्थानां वाक्येषु नियतः क्रमः कश्चिदस्ति, नियतक्रमका हि वर्णाः पदतामापद्यन्त इति युक्तं तदन्तरेण तदर्थानवगमात् । न हि 'टघ' इत्युक्त घटार्थावगतिर्भवति । वाक्येषु तु देवदत्त गामभ्याज दण्डेन, दण्डेन शुक्लां गामभ्याज देवदत्तेति क्रमान्तरेणापि तथैवार्थप्रतिपत्तेः किं क्रमेण ? अनुमानवाक्ये तु पञ्चावयवा इत्येतदेव तावत् प्रथममसाम्प्रतम्, प्रतिज्ञाद्यवयवानामसाधनाङ्गवचनत्वात् । तत्र तेषां पञ्चावयवानामपि प्रयोगः, प्रयोगेऽपि च क्रमो विवक्षितः, तदुल्लङ्घनं निग्रहस्थानमिति महती मूर्खप्रक्रियेति ।
अत्रोच्यते, वाक्यान्तरेषु क्रमापेक्षा भवतु मा वा भूद् नानेन नः प्रयोजनम् । अनुमानवाक्ये त्वार्थः क्रमो बलादापतति स्वप्रतिपत्त्यनुसारेण परप्रतिपत्तेरुत्पादनात् । स्वप्रतिपत्तौ च र्मिदर्शनतद्गतहेतुधर्मावधारणप्रतिबन्धस्मरणपरामर्शज्ञानसाध्यनिश्चयानां क्रमेण दर्शनात् परं प्रमाणतयैव तदभिधानं कर्तव्यमिति सविस्तरमवयवलक्षणे निर्णीतमेतत् । असाधनाङ्गवचनत्वमपि प्रतिज्ञाद्यवयवानां तत्रैव निरस्तम् । अतः क्रमस्येह युक्तियुक्तत्वात्तदतिक्रमो भवत्येव निग्रहस्थानम् । न्यूनस्य लक्षणम्
__ होनमन्यतमेनाप्यवयवेन न्यूनम् ॥ पञ्चावयवे वाक्ये प्रयोक्तव्ये स्थिते तदन्यतमेनाप्यवयवेन हीनं प्रयुञ्जानस्य न्यूनं नाम निग्रहस्थानं भवति ।
__ अत्राह, प्रतिज्ञाद्यवयवजातमसाधनाङ्गवचनमित्यतस्तदनभिदधतो न निग्रहः, प्रत्युत तद्वतो निग्रहो युक्त इति ।
अत्रोच्यते, अनन्तरमेवैतत् परिहृतम्, विस्तरतश्चावयवलक्षणे । तथा हि श्रोतुराकाङ्क्षानिवृत्तयेऽनुमानवाक्यं प्रयुज्यते । प्रथमं तदाकाङ्क्षाविषयः