________________
आह्निकम् ] स्थाननिग्रहप्रकरणम्
१९१ साध्यधर्मविशिष्टो धर्मी प्रदर्श्यते, ततः कारणाकाङ्क्षया हेतुवचनमभिधीयते, क्वास्य प्रतिबन्धो दृष्ट इति बुभुत्सायामुदाहरणमुपपाद्यते, इत्थमेष सिद्धप्रतिबन्धो हेतुर्मिणि भवेन्नवेति शङ्कायामुपनयवचनमुच्चार्यते, तदनन्तरं सर्वावयवानामेकत्रोपसंहाराय निगमनं प्रयुज्यत इत्यन्यतमस्याप्रयोगान्निग्रहार्हता भवत्येवेत्यलमत्रैव वस्तुनि पदे पदे कलहप्रस्तावेनेति । अधिकस्य लक्षणम्
हेतूदाहरणाधिकमधिकम् ॥ एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्रयुञ्जानस्याधिकं नाम निग्रहस्थानं भवति । एतच्च वादे तावद् वीतरागकथात्मके वस्तुनि निर्णयफले नेष्यत एव । जल्पेऽपि नियमाद्यपगमनेन वदतो 10 वादिन इदं निग्रहस्थानम् । यो हि न मया साधनमधिकाभिधेयमुदाहरणं वेति नियमस्योद्ग्राहयति स एव तथा निगृह्यते नान्य इति । एतच्च कीर्तिनाप्येवं कथितं प्रपञ्चकथायान्तु न दोष इति ।।
अपर आह, नियमाभ्युपगमेऽपि नायं दोषः, प्रतिपत्तिद्रढिम्ने तदभिधानादिति । तदयुक्तमभ्युपगतनियमत्यागादसौ निग्रहार्हो भवेत् । कश्चायं प्रतिपत्ति- 15 द्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोरदृढप्रतिपत्तिकारिणो हेतुत्वमेव न स्यात् । उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं न युक्तम्, तन्न । पूर्वहेतोरद्रढिमेत्युत्तरो द्रढिम्ने तस्मानियमाभ्युपगमेऽधिकाभिधानं दोष एव । अपरं मतम् अकृतनियमस्यापि दोष एव । प्रपञ्चकथायामप्येकेन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यम्, निर्णीतस्य निर्णयानुपपत्तेः, अनिर्णयकारिणश्च प्रथमस्य हेतोः 20 प्रयोगानहत्वादिति ।
पुनर्वचनस्य लक्षणम्
शब्दार्थयोः पुनर्वचनं पुनर्वचनमन्यत्रानुवादात् ॥ अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्, शब्दार्थस्य वाभिहितस्य पुनरभिधानं प्रपञ्चकथायां न दोष इति । यत्र प्रपञ्चेन कथा प्रस्तुता तत्राधिक्यमदोषमिति, 25