________________
१९२
न्यायमञ्जऱ्यां
[ द्वादशम्
पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवादं वर्जयित्वा । शब्दपुनरुक्तं तावद् यत्र पूर्वोच्चारित एव शब्दः पुनरुच्चार्यते, यथा नित्यः शब्दो नित्यः शब्द इति । अर्थपुनरुक्तन्तु यत्र सोऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण पुनरुच्यते, यथा नित्यः शब्दोऽनिरोधधर्मको ध्वनिरिति, यद्यपि च शब्दपुनरुक्तेऽप्यर्थपौनरुक्त्यमस्त्येव, तथापि शब्दपूर्वकत्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभिज्ञानात् तत्पौनरुक्त्यमेव तदुच्यते। जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहारो न व्यक्त्यपेक्षः, क्षणभङ्गित्वाद् वर्णानां पुनः प्रयोगासम्भवात् । अनुवादे तु पौनरुक्त्यमदोषो यथा 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्'
इति । अर्थादापन्नस्यापि स्वशब्देन पुनर्वचनं भवत्येव पुनरुक्तम्, यथा असत्सु 10 मेघेषु वृष्टिर्न भवतीत्युक्ते अर्थादापद्यते सत्सु भवतीति किमर्थं स्वकण्ठेन
पुनरुच्यते ? अर्थप्रतीत्यर्थो हि शब्दप्रयोगः प्रतीतेऽर्थे किं तेनेति । एतच्च नियमाभ्युपगमे निग्रहस्थानं वेदितव्यमकृतनियमस्य तु नातीव महानयमपराधः ।
अत्राह, नार्थपुनरुतादन्यच्छब्दपौनरुक्तयमुपपद्यते, शब्दसाम्येऽप्यर्थभेद15 दर्शनात्, स्मरत गिरिशं गिरीशो नगरी यस्यासमस्मरद्वेषस्य, गौरी यदीयस्य
मुदा न गरीयस्या समस्मरद्वेषस्य'इति । तस्मादर्थत एव पौनरुक्त्यं न शब्दतः । अपि च विस्तरकथासु कदाचनाश्रवणशङ्कया पूनरभिधानं नाम कियान
वदता । यत्र तु नियमेनैक एव हेतुः प्रयोक्तव्य इति परिभाष्यकथा, तत्र दोष एवेत्युक्तं भवति । तथा च स आह 'प्रपञ्चकथायां न कश्चिद् दोषो नियमाभावात्' इति ।
जात्यपेक्षश्च शब्दपौनरुक्तयव्यवहार इति । यज्जातीयः प्रयुक्तस्तज्जातीयस्यैव पुनः प्रयोगेण तस्यैवेति । अनुवादे तु पौनरुक्तयमदोषः। अर्थविशेषोपपत्तेरिति शेषः । तमेव दर्शयितुमाह हेत्वपदेशादित्यादिना। • स्मरत गिरिशं गिरीशो नगरीति । गिरि स्वाश्रयमुपभोगेन श्यति तनूकरोतीति
गिरिशः शर्वः, तं स्मरत ध्यायत । कीदृशम् ? यस्य गिरीशो नगरी, गिरीणां पर्वताना25 मीशो हिमवान् नगरी स्थानं यस्य इत्यर्थः । कीदृशस्य सतः ? सातत्यस्थानमाह, असम
स्मरद्वेषस्य असमः अतुल्यः अनन्यसाधारणः स्मरं कामं प्रति द्वेषो यस्य तादृस्य,.... यदीयस्य वेषस्य गरीयस्या गुरुतरया मुदा हर्षेण संस्मृतवानित्यर्थः ।