________________
आलियम् ] निग्रहस्थानप्रकरणम्
१९३ प्रमादः ? अर्थादापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते तर्हि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम् । अधिकपुनरुक्तयोर्वा विशेष इति वक्तव्यम् । यादृशं तादृशञ्च विशेषलेशमाश्रित्य पृथगभिधाने निग्रहस्थानभेदपरिगणनमशक्यक्रियं स्यात् । अनुवादश्च य उच्यते 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्' इति, तत्तु प्रतिजैव तावदसाध्वी तस्याः पुनर्वचनं साधु 5 भविष्यतीति केयं कथा ?
अत्रोच्यते, यदुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति तदेवमेव, पृथनिर्देशस्त्वनया विवक्षया । यो हि शक्त्यतिशयचिख्यापयिषया सकृत् प्रयोक्तव्यमिति प्रतिज्ञाय जल्पं प्रवर्तयति, स शब्दपुनरुक्तेनापि निगृह्यत इति । नियम्यवादिनश्च निग्रहात् ततोऽन्यस्य सम्यगश्रवणशङ्कया पुनर्वदतोऽपि 10 न दोषः । अर्थाक्षिप्तकथनमपि कृतनियमस्यैव दोषो नान्यस्येत्यत एव न वादे निग्रहस्थानमिदम्, अपि तु जल्पवितण्डयोरेव । विजिगीषुकथयोस्तयोश्च सप्रयोजनत्वं कथान्तरत्वञ्च पुरा समर्थितमेव ।
यत्तु प्रतिज्ञोच्चारणमाक्षिप्तत्वात् तदनुवादश्च निगमनवचनमफलतरमिति, तदवयवलक्षणे विस्तरेण समाहितम् । अधिकपुनरुक्तयोस्त्वयं विस्पष्ट 15 एव विशेषः । अन्यं हेतुमन्यं वा दृष्टान्तं तत्रैव साध्येऽभिदधदधिकवादी भवति । तमेव हेतुं दृष्टान्तं वा पुनर्वदन् पुनरुक्तवादीति । यत्त्वेवंविधविशेषाश्रयणे परिगणनमघटमानमिति तदवान्तरविशेषविवक्षयैव, असङ्कीर्णोदाहरणदर्शनाय द्वाविंशतिनिर्देश इत्युक्तम् । . अननुभाषणस्य लक्षणम्
. 20 विज्ञातस्य पर्षदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणम् ॥
पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्युच्चारणम्, तदननुभाषणं नाम निग्रहस्थानं भवति । अप्रत्युच्चारयन् किमाश्रयं दूषणमभिधीयते ।
ननु यद्यननुभाष्यापि तत्रोत्तरं ब्रूयात् किमिति निगृह्यते ? न च योऽनु- 25 भाषितुमसमर्थः स उत्तरमपि दातुमक्षमो भवति, विचित्रत्वात् पुरुषशक्ती
न्या० म०२५