________________
१९४
न्यायमञ्ज
[ द्वादशम् नाम् । नैतदेवम्, अननुभाषणे तदुत्तरविषयापरिज्ञानात् क्वोत्तरं प्रयुज्येत ? प्रयुक्तं वा कथमवधार्यते ? न चैवं ब्रूमो यावत् किञ्चिद्वादिना सविकारमभिधीयते तदखिलमखिन्नानतिरिक्तमनुज्झितक्रमकमेकं प्रति वाग्रमी तथैवानुभाषेतेति । यस्तु समस्तानुभाषणं तथा कुर्यादपि नाम तेन स्वकौशलमेव केवलमुपदर्शितं भवति मेधावित्वम्, न त्वेवमकुर्वन्नसौ प्रत्यवेयादिति । स्तोकस्तोकमनुभाषमाणस्तथैव च क्रमेण दूषयन्न निग्रहमाप्नुयादिति ।। ____ अत्राह, यदि वादी स्वपक्षसाधनविवरणवमना बहुतरमपरमप्रकृतमर्थमुपक्षिपेत् तत् किं प्रतिवादिना सर्वमनुभाषणीयम् ? हेतुमात्रं त्वन्द्य दूषणमुद्भावयतो नास्य निग्रहो युक्तः ? दूषणविषयन्तु हेतुमात्रमपि योऽनुभाषितुमकौशलः स उत्तरविषयापरिज्ञानादुत्तरमपि प्रतिपत्तुमसमर्थ एवेत्यप्रतिभया निगृह्यतां किमननुभाषणेन ? अपि च त्रिरभिहितस्येति केयं परिभाषा ? यथा च वादिना परावबोधार्थं वाक्यं प्रयुक्तं परोपद्रवार्थं वा तत्र परावबोधार्थे वाक्ये परावबोध एवाभिधानावधिर्न द्विस्त्रिर्वा नियमः, यावत्कृत्वः
प्रयुक्ते वाक्ये परस्यावबोधो जायते तावत्कृत्वः प्रयोक्तव्यम् । परोपद्रवार्थ 15 तु वाक्योच्चारणमक्षत एव धर्मः, प्राश्निकान् यथा तथा सङ्केतेनापि बोधयित्वा
दुःश्लिष्टशब्दप्रयोगाद्याडम्बरविरचनयाप्यान्ध्यमुत्पाद्य परानुपरुध्येतेति महत् कश्मलमेतत्, न चेदृशं शास्त्रे व्युत्पादनाहम् । तस्माद् बहुकृत्वोऽप्यभिधाय प्रतिवादी बोधयितव्यो न तु द्विरुच्चारितमप्रत्युच्चरन्निग्रहीतव्य इति ।
अत्रोच्यते, न खलु सकृदेव सकलमपरविरचितवचनसन्दर्भानुभाषणम20 विचलितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टम् अपि तु यथोचितदूषणविषयानु
भाषणमात्रमेव । ___ यस्तु स्तोकमप्यनुभाषितुमप्रगल्भस्तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते, तदसम्यक्, अन्यदननुभाषणमन्यदुत्तराप्रतिभानम् । कस्यचिदशेष
मनुभाषितवतो न मुच्यतेऽनेनोत्तराप्रतिभानम् । उत्तराप्रतिभानमनन्तरं 25 वक्ष्यते।
यत्तु त्रिरुच्चारणपरिभाषा कुतस्त्येति विकल्पितम्, तदविज्ञातार्थनाम्नि निग्रहस्थाने प्रतिविहितम् । वीतरागकथात्मके वादे शिष्टादिभिः सह क्रियमाणे